प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
पञ्चमोऽङ्कः

 चारुदत्तः-----सम्यगाह भवान्,-

अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीच मृणालच्यः ।।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इध वारिधाराः ॥४४॥


अपि च,

धाराभिरार्यजनचित्तसुनिर्मलाभि-
श्चण्डाभिरर्जुनशरप्रति कर्कशभिः ।
मेघाः स्रवन्ति बलदेवपटप्रकाशः।
शकस्य मैक्तिकनिधानमिवोद्रिरन्तः ॥ ४५ ॥


प्रिये ! पश्य पश्य

एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः
संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता
रक्ता कान्तमिवम्बरं प्रियतमा विद्युत्समलिङ्गति ।। ४६ ॥



कृते योगात् ।। क इति ।। ४३ ॥ अमूरति ॥ ४४ ॥ धाराभिरिति टिप-1 मराभवस्वसदृशा इत्यर्थः । 2 वर्णकोऽस्त्री विलेपनम्' इत्यमरः । पिष्टं यतमालस्य वर्णकं विलेपने तमालवणे वा वर्णनं तत्सदृशैः, नीळविलेपनसद्दशै- भैरालितं कृतकस्तूरिकाङ्गरागमिवेति भावः । प्रदोषानि लें: सन्ध्यावतैः, शीतैः सुगन्धैः, संसक्तैः सर्वतोमिलितैः, उपवजितं संजातव्यजनबीजनमिवेत्यर्थः । आकण्ठ मुत्कण्ठामन्तरा नातिस्फुरत्यकुण्ठः शङ्कर इत्युत्कण्ठामवतारयति-अम्भदेत्यादिना । अम्भोदानां समागमेनोद्दीपनविभावरूपेण प्रणयिनी । अत एवं स्वच्छन्दं स्वयमेव अभ्यागता, नतु प्रियेणाहुता । यथा त्वं स्वयमेवातासीति व्यङ्गम् । रका शोणवण, पक्षेऽनुरक्ता च प्रियतमा कान्तमिव विच्चदम्बरं समालिङ्गीयन्वयः । 8 अत्र

  • अम्बर'शब्दगतं नपुंसकं लिङ्ग नार्थतो भासते; येन नपुंसकमालिङ्घतीति दूषणमुद्धा-

व्येत; ‘दाराः कलत्रं योषित्' इत्यादौ व्यभिचारात् । अयमैन्द्रोमुखं पश्य रकथुम्बक्षि चन्द्रमाः' इत्यादौ भासते, तथापि प्रकृते न व्यङ्ग्यार्थहानिः, अपि त्वधिक- चमस्कृतिरेव । तथा हि-अपुमांसमप्यम्बरं साऽऽलङ्गति, स्वं तु सुन्दरमपि पुमांस मामालिङ्ग रमयेत्याशयः । ....43 / -*