पृष्ठम्:मृच्छकटिकम्.pdf/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
मृच्छकटिके

षष्ठोङ्क

( ततः प्रविशति चेटी )

 चेटी--कधं अज्ज वि अज्जआ ण विवुज्झदि ? । भोदु, पविसिअ पडिबोधहस्सं । [कथमयोप्यार्या न विबुध्यते ? । भवतु, प्रविश्य प्रतिबोधयिष्यामि । ] ( इति नाट्येन परिक्रामति )

( ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना)

 चेटी--( निरूप्य ) उत्थेदु उत्थेदु अज्जआ । पभादं संवृत्तं । [ उत्तिष्ठतुत्तिष्ठत्वार्या । प्रभात संवृत्तम् । ।

 वसन्तसेना--(प्रतिबुध्य ) कवं रत्ति जेव्व पभादं संवुत्तं १ । [ कथं रात्रिरेष प्रभातं संवृत्तम् १ । ।

 चेटी--अम्हाणं एसो पभादो । अज्जआए उण रत्ति जेव्व । [अस्माकमेष प्रभातः । आर्यायाः पुना रात्रिरेव ।]

 वसन्तसेना-इञ्जे ! कहिं उण तुम्हाणं जूदिअरो ? । [चेटि ! कुतः पुनर्युष्माकं द्यूतकरः ?।]

 चेटी--अज्जए ! वङ्ढमाणअं समादिसिअ पुप्फकरंडअं जिष्णुज्जाणं गदो अज्जचारुदत्तो । [ आर्ये ! वर्धमानकं समादिश्य पुष्पकरण्डकं जीर्णोद्यानं गत आर्यसदितः ।]

 वसन्तसेना---किं समादिसिअ १ । [ किं समादिश्य ? ।]

 चेटी–जोएहि रात्तीए पवहणं, वसन्तसेना' गच्छदुत्ति । [ योजय रात्रौ प्रवहणम्, वसन्तसेना गच्छत्विति ।]

 वसन्तसेना--हञ्जे ! कहिं मए गंतव्वं ? । [चेटि ! कुत्र- मया गन्तव्यम् ? ।।

 चेटी--अज्जए । जहिं चारुदत्तो । [ आर्ये ! यत्र चारुदत्तः ।]

 वसन्तसेना---( चेट परिष्वज्य ) हञ्जे | सुड्डु ण निज्झाइदो रत्तीए,


ओएहि योजय । अपय्यत्तं अपर्याप्तम् । यदृच्छासंबन्धि (१) । एतेन मृच्छ-