एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
मृच्छकटिके

ण जुत्तं मम एदं गेण्हिदुं । अज्जउत्तो ज्जेव्व मम आहरणविसेसो त्ति जाणादु भोदी' । [ यदाज्ञापयति । आर्ये । भणत्या धूता--आर्यपुत्रेण युष्माकं प्रसादीकृता; न युक्तं ममैता ग्रहीतुम् । आर्यपुत्र एव ममाभरणविशेष इति जानतु भवती।]

( ततः प्रविशति दारकं गृहीत्वा रदनिका )

 रदनिको–एहि वच्छ ! सअडिआए कीलम्ह । [एहि वत्स! शकटिकया क्रीडावः ।]

 दारकः-( सकरुणम् ) रदणिए ! किं मम एदाए मट्टिआसअडि- आए ? । तं ज्जेव सोवण्णसअडियं देहि । [रदनिके! किं ममैतया मृत्तिकाशकटिकया ? । तामेव सौवर्णशकटिकां देहि ।।

 रदनिका---( सनिर्वेदं निःश्वस्य ) जाद ! कुदो अम्हाणं सुवण्णववहारो ? । तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि । ता जाव विणोदेमि णं । अज्जआवसंतसेणाए समीवं उवसप्पिस्से ।। ( उपसत्य ) अज्जए ! पणमामि । [जात ! कुतोऽस्माकं सुवर्णव्यवहारः १ ।। तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। तद्यावद्विनोदयाम्येनम्। आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि । आयें ! प्रणमामि । ]

 वसन्तसेना-रदणिए ! साअद दे; कस्स उण अअं दारओ १ ।। अणलंकिदसरीरो वि चंदमुहो आणंदेदि मम हिअअं । [ रदनिके ! स्वागतं ते; कस्य पुनरयं दारकः ? । अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् ।।

 रदनिका-एसो खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम । [ एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम ।]

 वसन्तसेना--( बाहू प्रसार्य) एहि मे पुत्तअ ! आलिंग । ( इत्यङ्क उपवेश्य) अणुकिदं अणेण पिदुणो रूवं । [एहि मे पुत्रक ! आलिङ्ग । अनुकृतमनेन पित् रूपम् ।]