पृष्ठम्:मृच्छकटिकम्.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
षष्ठोऽङ्कः

 रदक्षिका––ण केवलं रूवं, सीलं पि तक्केमि । एदिणा अज्जचारुदत्तो अत्ताणअं विणोदेदि । [ न केवलं रूपम् , शीलमपि तर्कयामि । एतेनार्यचारुदत्त आत्मानं विनोदयति ।]

 वसन्तसेना--अध किंणिमित्तं एसो रोअदि ? । [अर्थ किं निमित्त- मेष रोदिति ? ।

 रदनिका--एदिणा पडिवेसिअगहवइदारअकेरिआए सुवण्णसअडिआए कीलिदं । तेण अ सा णीदा । तदो उण तं मग्गंतस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा । तदो भणादि----२दणिए ! कि मम एदाए मट्टिसअडिआए । ते ज्जेव्व सोवण्णसअडियं देहि' त्ति । [ एतेन प्रतिवेशिकग्रहपतिदारकस्य सुवर्णशकटिया क्रीडितम् । तेन च सा नीता । ततः पुनस्ता् याचतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो भणति---‘रदनिके! किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि' इति ।।

 वसन्तसेना---हद्धी हद्धी; अअं पि णाम परसंपत्तीए संतप्पदि । भअवं कअंत ! पोक्खरवत्तपडिदजलबिंदुसरिसेहिं कीलसि तुमं पुरिसभाअधेएहिं । ( इति सास्ना ) जाद ! मा रोद। सुवण्णसअडिए कीलिस्ससि । [ हा धिक् हा धिक्; अयमपि नाम परसंपस्या संतप्यते । भगवन्कृतान्त ! पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात ! मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि ।]

 दारकः--रदणिए ! का एसा ? । [ रदनिके! कैषा ? । ]

 वसन्तसेना----दे पिदुणो गुणणिज्जिदा दासी । [ते पितुर्गुण- निर्जिता दासी ।]

 रदनिका--जाद ! अज्जआ दे जणणी भोदि । [ जात ! आर्या ते जननी भवति ।


कटेन प्रतिवेशिकगृहपतिदारकसंबन्धिन्या सुवर्णकटिकया क्रीडितम् । तेन प्रति-