पृष्ठम्:मृच्छकटिकम्.pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
मृच्छकटिके

 दारकः-रदणिए ! अलिअ तुमं भणसि; जइ अम्हाणं अज्जआ जणणी, ता कीस अलंकिदा ।। [रदनिके ! अलीकं त्वं भणसि; यद्य- स्माकमार्या जननी, तत्किमर्थमलंकृता ? ।]

 वसन्तसेना--जाद ! मुद्रेण मुहेण अदिकरुणं मंतेसि । ( नाट्येनाभरणान्यवतार्य रुदती ) एसा दाणिं दे जणणी संवुत्ता; ता गेण्ह एदं अलंकारअं, सोवण्णसअडिगं घडावेहि । [ जात ! मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानीं ते जननी संवृत्ता; तद्गृहाणैतमलंकारम् , सौवर्णशकटिको कारय ।]

 दारकः----अवेहि, ण गेण्हित्सं; रोदसि तुमं । [अपेहि, न ग्रहिष्यामि; रोदिषि त्वम् ।]

 वसन्तसेना--( अश्रूणि प्रमृज्य ) जाद ण रोदिस्सं । गच्छ, कील। (अलंकारै मृच्छकटिकां पूरयित्वा) जाद ! कारेहि सोवण्णसअडिअं [जात ! न रोदिष्यामि । गच्छ, क्रीड । जात! कारय सौवर्णशकटिकाम् ।]

(इति दारकमादाय निष्क्रान्ता रदनिका )

( प्रविश्य प्रवहणाधिरूढः)

 चेटः–लदणिए लदणिए ! णिवेदेहि अज्जआए वशंतशेणाए- ओहालिअं पक्खदुआलए शज्जं पवहणं चिट्ठदि । [रदनिके रदनिके ! निवेदयार्यायै वसन्तसेनायै--‘अपवारितं पक्षद्वारके सज्जं प्रवहणं तिष्ठति।]

( प्रविश्य )

 रदनिका--अज्जए ! एसो वड्ढमाणओ विण्णवेदि-पक्खदुआ- रए सज्जं पवहणं' ति । [ आर्थे ! एष वर्धमानको विज्ञापयति--‘पक्षद्वारे सञ्ज प्रवहणम्' इति । ]


वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी । अलिअं अलीकम् । असयमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णा शकटिकां दारकं च स्वयं गृहीत्वा