पृष्ठम्:मृच्छकटिकम्.pdf/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
मृच्छकटिके

एशे अवले शहिअं विअ मं पेक्खिअ शहश ज्जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणलं अण्णदो अवक्कंते ? । ता को उण एशे अधवा किं मम एदिणा ? तुलिदं गमिश्शं । अले ले गामलुआ ! ओशलध ओशलध ।(आकण्ये) किं भणाध---‘मुहुत्तअं चिट्ट, चक्कपलिवट्टिं देहि त्ति ? । अले ले, लाअशालअशंठाणकेलके हग्गे शूले चक्कपलिवट्टि दइश्शं । अधवा एशे एआई तवश्शी । ता एव्वं कलेमि । एदं पवणं अजचामुदत्तश्श रुक्खवा डिआए पक्खदुआलए थावेमि । ( इति पवहणं संस्थाप्य ) एशे म्हि आअदे। आज्ञप्तोऽस्मि राजश्यालकसंस्थानेन-- स्थावरक ! प्रवहणं गृहीत्वा पुष्पकरके जीर्णोद्यानं त्वरितमागच्छ इति । भवतु, तत्रैव गच्छामि । वहतं बलीवर्दाः ! वहतम् । कथं ग्रामशकटै रुद्धौ मार्गः? । किमिदानीमत्र करिष्यामि ? । अरे रे, अपसरत अपसरत । किं भणथ–एतत्कस्य प्रवहणम्' इति ?।एतद्राजश्यालकसंस्थानस्य प्रवहणमिति। तरछीघ्रमपसरत । कथमेषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवायात्मानमन्यतोऽपक्रान्तः ? । तत्कः पुनरेषः १। अथवा किं ममैतेन ? । त्वरितं गमिष्यामि । अरे रे ग्राम्याः ! अपसरत अपसरत । किं भणथ–‘मुहूर्तकं तिष्ठ, चक्कपरिवृत्तिं देहि' इति ? । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चऋपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी। तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि। एषोऽस्म्यागतः । ] ( इति निष्क्रान्तः )।

 चेटी-अज्जए ! णेभिसद्दो विअ सुणीअदि । ता आअदो पवहणो । { आर्ये ! नेमिशब्द इव श्रूयते । तदागते प्रवहणम् ।]

 वसन्तसेना---हञ्जे ! गच्छ तुवरदि मे हिअअं; तो आदेसेहि पक्खदुआलअं । [येटि ! गच्छ, त्वरयति मे हृदयम् ; तदादिश पक्षद्वारम्।]


अलीबदः ॥ छूतपलायि इव यूतक्ररः सभिकमिव मां दृष्ट्वा प्रच्छादितश- रीरः । एतेनायकस्य पलायनमुपक्षिप्तम् । गोमेलु प्राम्याः । चक्कपरिवङिओं चक्रपरिवृत्तिम् । शुळे शुरः । एआई तबस्सी एकाकी बराकः । एशे आभदे