अप्रमत्ताः स्वेषु स्नेषु गुल्मस्थानेषु भवत । एषोऽय गोपालदारको गुप्तिं भङ्क्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्वा परिभ्रष्टोऽपक्रामति, ततिगृह्णीत गृह्णीत ।।
( प्रविश्यापटीपेक्षेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित आर्यकः परिक्रामति )
चेटः---(स्वगतम् ) महंते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शं । [महान्नगर्यां संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।]
(इति निष्कान्तः )
आर्यकः--
हित्वाहं नरपतिबन्धनोपदेश |
भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा प2लकेन घोषादानीय विशसने गूढागारेबन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छर्विलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । ( अश्रूणि विसृज्य )
भाग्यानि मे यदि तदा मम कोऽपराधो |
गेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महार्णवम् ! संघाताजन्यत्वेन (१) संबन्धेन ।। १ ॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि । पाठो०--१ नराणाम्. टिप्य०.1 नराणां राजकर्तृकबन्धनमिषरूपा विशिष्टापत्तिस्ताडनवधादिस्तज्जन्यं
दुःखं हित्वा तीर्त्वेत्यर्थः। 2 पालकेति राज्ञो नाम । घोष आभीग्रामः, विशसने हनने ।