णीअदि । [एतत्खलु प्रवहणमार्यचारुदत्तस्य । इहार्या वसन्तसेनारूढा पुष्पकरण्डकं जीर्णोद्यानं क्रीडितुं चारुदत्तस्य नीयते ।।
वीरकः---( चन्दनमुपसृत्य ) एसो पक्हणवाहओ भणादि-अज्जचालुदत्तस्स पवहणं वशंतशेणा आलूढा । पुप्फकरंडअं जिण्णुज्जाणं णीअदि’ त्ति । [एष प्रवहणवाहको भणति–'आर्यचारुदत्तस्य प्रवहणं वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं नीयते' इति ।
चन्दनकः---ता गच्छदु । [ तद्गच्छतु । ]
वीरकः---अणवलोइदो ज्जेव्व । [ अनवलोकित एव ? ।]
चन्दनकः--अध इं । [ अथ किम् । ]
वीरकः–कस्स पच्चएण [कस्य प्रत्ययेन ?]
चन्दनकः--अज्जचारुदत्तस्स । [आर्यचारुदत्तस्य ।।
वीरको–को अज्जचारुदत्तो, का वा वसंतसेणा, जेण अणवलो- इदं वज्जइ ? । [क आर्यचारुदत्तः, का वा वसन्तसेना, येनानवलोकितं व्रजति ? ।]
चन्दनकः---अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसंतसे- णिअं १ । जइ अज्जचारुदत्तं वसंतसेणिअं वा ण जाणासि, ता गअणे जोण्हासहिदं चंदं पि तुमं ण जाणासि ।
को तं गुणारविंदं सीलमिअंकं जणो ण जाणादि । |
एवं तावद्विचारयत कस्य कुत्र वा प्रवसितं प्रवहणमिति ॥ १२ ।। यच्छन्दसमिति यथाच्छन्दम् (१) । यथेष्टमित्यर्थः ॥ को कमित्यादि गाथाद्वयम् । कस्त गुणारविन्दं शीलमृगाङ्कं जनो न जानाति । आपन्नदुःखस्य मोक्षो यतस्तं चतुःसागरसारकं रत्नम् ।। १३ ।। द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।