पृष्ठम्:मृच्छकटिकम्.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
मृच्छकटिके

(चन्दनकः संज्ञां ददाति )

 वीरक–अरे, किं णेदं ? । [ अरे, किं न्विदम् ? । ]

 चन्दनकः-

सिण्णसिलाअलहत्थो पुरिसाणं कुधगंठिसंठवणो ।
कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥ २२ ॥

[शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः ।
| कर्तरीत्यापृतहस्तस्वमपि सेनापतिर्जातः ॥]।

 वीरकः-अरे चंदणआ ! तुम पि माणिज्जंतो अप्पणो केरिकं जादिं ण सुमरेसि ।। [अरे चन्दनक ! त्वमपि मान्यमान आत्मनो जातिं न स्मरसि १ । ]

 चन्दनक-अरे, का मह चंदणअस्स चंदविसुद्धस्स जादी । [ अरे, को मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः ? । ]

 वीरकः--को भणउ ? । [ को भणतु ? । ]

 चन्दनक-भणउ, भणउ । [ भणतु, भणतु ।]

( वीरको नाट्येन संज्ञां ददाति )

 चन्दनकः--अरे, किं णेदं ? । [अरे, किं न्विदम् ? ।]

 वीरक-अरे, सुणाहि सुणाहि,--

जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पङहो ।
दुम्मुह ! करडअभादा तुम पि सेणावई जादो ॥ २३ ॥

[अरे, शृणु शृणु,-

जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः ।।
दुर्मुख ! करटकभ्राता त्वमपि सेनापतिर्जातः । ]

 चन्दनकः--( सक्रोधम् ) अहं चंदणओ चम्मारओ तो पलोएहि पवहणं । [ अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् ।]


मनसि किं च कपित्थेन भग्नेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभिनयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसं-