प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
मृच्छकटिके

सप्तमोऽङ्कः

(ततः प्रविशति चारुदत्तो विदूषकश्च )

 विदूषकः---भो ! पेक्ख पेक्ख पुप्फकरंडअजिण्णुज्जाणस्स सरिसरी- अदां । [ भोः ! पश्य पश्य पुष्पकण्डकजीर्णोधानस्य सश्रीकताम् ।।

 चारुदत्तः-- वयस्य । एवमेतत् ; तथा हि ।

वणिज इव भान्ति तरवः पण्यानीच स्थितानि कुसुमानि ।
शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥ १ ॥

 विदूषकः----भो । इमं असक्काररमणीयं सिलाअलं उवविसद् भवे । { भोः ! इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् ।]

 चारुदत्तः–( उपविश्य ) वयस्य । चिरयति वर्धमानकः ।।

 विदुषकः---भणिदो मए वड्माणओ-बसंतसेणिलं गेण्हिअ लहूं लहुं आअच्छ' ति । [ भणितो मया वर्धमानकः–'वसन्तसेना गृहीत्वा लघु लघ्वागच्छ' इति ।]

 चारुदत्तः- तकि चिरयति ?

किं येत्यस्य पुरः शनैः प्रवहणे तस्यान्तरं मागते
भन्नेऽसे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः।
कर्मान्तोज्झितदारुवारितगतिमगन्तरं याचते
खैरं प्रेरितगोयुगः किमथवा स्वच्छन्दमागच्छति ॥२॥


वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कार मिति । अकृत्रिम स्वभावत एवेत्यर्थः ॥ किमिति । कमन्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि पाठा०—१ वमन्तोज्झित (=चर्मनो मार्गस्यान्ते मध्ये उज्झितेन त्यतैन)। टिप्प० अस्य वर्धमानकस्य, तस्य प्रवहणस्य, अन्तरमनकाशम् , प्रअहो वृषभयो रज्जुः, दारुणी महाकावेन, वारितगतिः निरुद्धवेगः, वैरं स्वेच्छानुरूपम् , प्रेरितगोयुगः प्रेरितवृषयुगः । अत्रोत्कठा व्यङ्गया; ‘सर्वेन्द्रियस्खास्वादो यत्रास्त्रीत्यनु-

मन्यते । तत्प्राप्तीच्छ ससंकल्पामुत्कण्ठां कवयो विदुः' इति वचनात् ।