पुटमेतत् सुपुष्टितम्
१८२
मृच्छकटिके

 चारुदत्त-प्रियं नः प्रियम् ।

 विदूषक–दासीए पुत्ता ! किं चिरइदो सि १ । [ दास्याःपुत्र ! किं चिरायितोऽसि ?।]

 वेद---अज्जमित्ते्! मा कुप्प; जाणत्थलके विशुमलिदे त्ति कदु्अ गदागदं कलेंते चिलइदेम्हि । { आर्यमैत्रेय ! मा कुष्य; यानास्तरणं विस्मृतमिति कृत्वा गतागतं कुर्वंश्चिरायितोऽस्मि ।]

 चारुदत्तः----वर्धमानक ! परिवर्तय प्रवहणम् । सखे मैत्रेय । अव- तारय वसन्तसेनाम् ।

 विदूषकः--किं णिअडेण बद्धा से गोड्डा, जेण सअं ण ओदरेदि ! । ( उत्थाय, प्रवहणमुद्धाट्य ) भो ! ण वसंतसेणी, वसंतसेणो खु एसो । [ किं निगडेन बद्धावस्याः पादौ,येन स्वयं नावतरति ? । भोः ! न वसन्त- सेना, वसन्तसेनः खल्वेषः ।].

 चारुदत्तः–वयस्य | अलं परिहासेन । न कालमपेक्षते स्नेहः। अथ वा स्ययमेवावतारयामि । ( इत्युत्तिष्ठति )

 आर्यकः-( दृष्ट्वा ) अये अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयॊ दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि ।

 चारुदत्तः---(प्रवहणमधिरुह्य, दृष्ट्वा च ) अये, तत्कोऽयम् ।।

क1रिकरसमबाहुः सिंहपीनोन्नतांसः
पृथुतरसमवक्षास्ता2म्रलोलायताक्षः ।
कथमिदमस3मानं प्राप्त एवं विधो यो
वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥


चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ।

टिप्प०-1 नृपचिह्ललक्षितोऽयं महापुरुष इति सूचयत्येतैर्विशेषणैः । 2 रक्ताक्षं न

जहाति भीः' इति प्रामाण्यात्। ३ निगडबन्धनाद्यनर्हमिति भावः ।