पुटमेतत् सुपुष्टितम्
१८५
सप्तमोऽङ्कः

 आर्यको–एवम् , पुनर्दर्शनाय । ( इति निष्क्रान्तः )

 चारुदत्तः--

कृत्यैवं मनुजपतेर्महव्यलीकं
स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् ।
मैत्रेय ! क्षिप निगडं पुराणकूपे ।
पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८॥

(वामाक्षिस्पन्दनं सूचयित्वा ) सखे मैत्रेय ! वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य

अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम्।
अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९ ॥

तदेहि, गच्छावः । ( परिकम्य ) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् ? । ( विचार्य) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । ( इति निष्क्रान्ताः सर्वे )

इत्यार्यकापवाहनं नाम सप्तमोऽङ्कः ।


कयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे महानभिनिवेश इत्यर्थः ॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः । अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥ इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः । टिप्प०-1 यथैतदङ्कादौ गताङ्कसमाप्तौ च वसन्ससेनाया दक्षिणक्षिस्फुरणमा- सीत्तथैदमप्यशुभसूचकम् । अनयोः स्फुरणयोः फलमनुपदमस्मिन्नष्टमेऽङ्के वसन्तसेनायाः शकारकृता मरणकल्पा यातना, चारुदत्तेन वसन्तसेना मारितेत्यभिशापेन चारुदत्तस्य

निग्रहो वधार्थं नयनं च फलम् । ततश्चान्ते भाग्यवशादखिलापदां निवारणम् ।