पृष्ठम्:मृच्छकटिकम्.pdf/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
अष्टमोऽङ्कः

अपि च, अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि ।

पञ्चजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।
अबलः क्व चण्डालो मारितोऽवश्यमपि स नरः स्वर्ग गाइते ॥

शिरो मुण्डितं तुण्डं मुण्डितं चितं न मुण्डितं किमर्थं भुण्डितम् ।
यस्य पुनश्च चित्ते मुण्डितं साधु सुष्टु शिरस्तस्य मुण्डितम् ॥

गृहीतकषायोदकमेतच्चीवरम् , यावदेतद्राष्ट्रियश्यालकस्योद्याने प्रविश्य पुष्क- रिण्यां प्रक्षाल्य लघु लघ्वपक्रमिष्यामि । ] ( परिकम्य, तथा करोति )

( नेपथ्ये )

 शकारः----च्यिश्ट ले दुश्टशमणका ! च्यिश्ट । [तिष्ठ रे दुष्ट- श्रमणक! तिष्ठ ।

 भिक्षुः---( दृष्ट्वा, सभयम् ) ही अविद, माणहे एशे शे लाअशालशंठाणे आअदे। एक्केण भिक्खुणा अबलाहे कि दे, अण्णं पि जहिं जहिं भिक्खु पेक्खदि, तहिं तहि गोणं व्व णाशं विधिअ ओवाहेदि; ता कहिं अशलणे शलणं गमिश्शं । अथवा भट्टालके ज्जेव बुद्धे मे शलणे । [ आश्चर्यम् , एष स राजश्यालसंस्थानक आगतः, एकेन भिक्षुणापराधे कृतेऽन्यमपि यत्र यत्र भिक्षुं पश्यति, तत्र तत्र गामिव नासां विद्वापवाह- यति। तत्कुत्राशरणः शरणं गमिष्यामि ? । अथवा भट्टारक एव बुद्धो मे शरणम् । ।

( प्रविश्य, सखङ्गेन विटेन सह )

 शकारः-च्यिश्ट ले दुश्टशमणका ! च्यिश्ट; आवाणअमञ्झ- पविश्टश्श; विअ लत्तमूलअश्श शीदं दे मोडइश्शं । (इति ताडयति )


न मुण्डितं न संयत्तीकृतं किं मुण्डितम् । यस्य पुनश्चितं मुण्डितं सुष्ठु साधु शिरस्तस्य मुण्डितम् ।। ३ ।। लट्टिअशालकाहेति । राष्ट्रियश्यालकत्वेन च पुनः संयोगः प्रकर्षख्यापनार्थः । अपूपौ द्वावितिवत् वा न पुनरुक्तम् ॥ ही अविद माणहे' इति विस्मयखेदे । नासिकां भित्त्वापवाहयति । तत्कुत्राहमशरणः शरणं गमिष्यामीति ॥ आपानकं पानगोष्ठी । पिबन्त्यस्मिन्नित्यधिकरणे ल्युट् । रकमूलकस्य शीर्षमिव