एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
मृच्छकटिके

[ तिष्ठ रे दुष्टश्रमणक! तिष्ठ; अपानकमध्यप्रविष्टस्येव रक्तमूलकस्य शीर्ष ते भक्ष्यामि।]

 विटः----काणेलीमातः । न युक्तं निर्वेदधृतकषायं भिक्षुं ताडयितुम् । तत्किमनेन ? । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् ।

अशरणशरणप्रमोदभूतैर्वनतरुभिः क्रियमाणचारुकर्म ।
हृद1यमिव दुरात्मनामगुप्तं नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥

 भिक्षुःशाअद; पशीददु उवाशके | | स्वागतम् प्रसीद- पासकः ।]

 शकारः-----भावे ! पेक्ख पेक्ख, आक्कोशदि मं । [भाव ! पश्य पश्य, आक्रोशति माम् ।।

 विटः-किं ब्रवीति ?।।

 शकारः-उवाशके त्ति मं भणादि, किं हग्गे णाविदे ? । [उपासक इति मा भणति, किमहं नापितः ? । ] ।

 विटः - बुद्धोपासक इति भवन्तं स्तौति ।

 शकारः----थुणु शमणका ! थुगु । [ स्तुनु श्रमणक ! स्तुनु ।]

 भिक्षुः--तुमं धण्णे, तुम पुण्णे । [वं धन्यः, त्वं पुण्यः ।]

 शकारः---भावे ! धणे पुण्णे त्ति मं भणादि । किं हग्गे शलावके कोश्टके कोंभकाले वा ।। [ भाव ! धन्यः पुण्य इति मां भणति । किमहं शला2वकः (चार्वाकः ) कोष्टकं कुम्भकारो वा ? ।]


मध्यमा किं पत्रलकभागमपनीय ( ?) मूलकमुपदंशीकुर्वन्ति । अशरणेति । अनिर्जितमनात्मसात्कृतम् ॥ ४ ॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशथः । शलाकवश्चार्वाकः । कोष्ठकामेष्ठकादिरचितम् ॥ यत्र तावत्कुकु( क्कु )राः शृगाला जलं टिप्प०-1 अपीयते संभूय पीयते सुरा़डत्रेत्यापानकं मद्यपायिनां समाजः । 2 यथा खलानां हृदयं तदैवोत्तानं भवति, यदा सोडन्यस्य दोषादिकमन्यमै कथयति तद्वत् । उद्यानमिदमीदृशम् , असदपहाय सदेव कर्म विदधाति; त्वं तु चेतनः संन्या-

सिनमपि ताडयसि; किमतः परमसदस्ति ? इति शकारोपरि विष्टस्य कटाक्षः ।