पृष्ठम्:मृच्छकटिकम्.pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
मृच्छकटिके

 भिक्षुः--उवाशके 1 एव्वं । अचिलपवजिदे हग्गे [उपासक ! एवम् । अचिरप्रव्रजितोऽहम् ।]

 शकारः---ता कीशं तुमं जातमेत्तक ज्जेन ण पव्वजिदे । [तस्किमर्थं त्वं जातमात्र एव न प्रवजितः ? ।] ( इति ताडयति )

 भिक्षुः - णमो बुद्धश्श । १ नमो बुद्धाय ।]

 विटः–किनेन ताडितेन तपस्विना ? मुच्यताम् ; गच्छतु ।

 शकारः-अले ! च्यिश्ट दाव जात्र शंपधालेमि । [अरे ! तिष्ठ तावत् , याचत्संप्रधारयामि ।]

 विटः--केन सार्धम् ।।

 शकारः–अत्तणो हडक्केण । [ आत्मनो हृदयेन । ]

 विटः-हन्त, न गतः ।।

 शकारः----पुत्तका हडक्का ! भटके पुत्तके ! एशे शमणके अवि णाम किं गच्छदु, किं च्यिश्टदु । (स्वगतम् ) णावि गच्छदु, णावि च्यिश्टदु ? । ( प्रकाशम् ) भावे शंपधालिदं मए हडक्केण शह । एशे मह हडक्के भणादि । [ पुत्रक हृदय ! भट्टारक पुत्रक ! एष श्रमणकोऽपि नाम किं गच्छतु, किं तिष्ठतु ? । नापि गच्छतु, नापि तिष्ठतु । भाव ! संप्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति ।]

 विटः --- किं ब्रवीति ? ।

 शकारः--मावि गच्छदु, मावि च्यिश्टदु । मावि ऊशशदु, मावि णीशशदु; इध ज्जेव झत्ति पडिअ मलेदु । [मापि गच्छतु, मापि तिष्ठतु। माप्युच्छ्वसितु, मापि निःश्वसितु । इहैव झटिति पतित्वा म्रियताम् ।] किणः संघर्षजो व्रणाकारः । वस्नकषायीकरणं न शीलितम् । वस्त्रान्तः स्कन्धे न तिष्ठते । नपुंसकत्वं चिन्त्यम् (?)। निगूढमवकाशो यस्य तत् । संकोचितप्रदेश-


मित्यर्थः । पटस्योच्छ्यो विशालता । तस्माद्दुःखम् ॥ ५ ॥ जातमात्र एव म प्रव्रजितः ॥ तपस्विना घराकेण ।। हलक्केन हृदयेन । न गतस्तर्हि न गमिष्यतीत्यर्थः।

-.- ... .----.. - --.-. .

.---: -