पृष्ठम्:मृच्छकटिकम्.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
मृच्छकटिके

 शकार-शुश्टु भावे भणादि

बहुकुशुमविचित्तिदा अ भूमी
कुशुमभलेण विणामिदा अ लुक्खा ।
दु1मशिहललदाअलंबमाणा ।
पणशफला विअ बाणला ललंति ॥ ८ ॥

 [ सुष्टु भावो भणति

बहुकुसुमविचित्रिता च भूमिः कुसुमभरेण विनामिताश्च वृक्षाः ।
द्रुमशिखरलतावलम्बमानाः पनसफलानीव वानरा ललन्ति ॥]

 विटः----काणेलीमातः ! इदं शिलातलमध्यस्यताम् ।।

 शकारः-एशे म्हि आशिदे । ( इति विटेन सहोपविशति ) भावे ! अज्ज वि तं वशंतशेणिअं शुमलामि । दुज्जणवअणं विअ हेडक्कादो ण ओशलदि । [एषोऽस्म्यासितः । भाव ! अथापि तां वसन्तसेना स्मरामि । दुर्जनवचनमिव हृदयान्नापसरति ।।

 विटः--(स्वगतम् ) तथा निरस्तोऽपि स्मरति ताम् । अथवा

स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः ।।
सत्पुरुषस्य स एव तु भवति मृदुर्नैव वा भवति ॥ ९ ॥

 शकारः---भावे ! का वि वेला थाक्लकचेडश्श भणिदश्श ‘पवहणं गेण्हिअ लहुं लहुं आअच्छे ति । अज्ज वि ण आअच्छदि त्ति। चिलम्हि बुभुक्खिदे । मज्झण्हे या शक्कीअदि पादेहिं। गंतुं । ता पेक्ख पेक्ख

णहमज्झगदे शूले दुष्पेक्खे कुविदवाणलशलिच्छे।
भूमी दृढशंतत्ता हदपुत्तशदेव गंधाली ॥ १० ॥


विपर्यस्तं लोकविरुद्धम् ॥ ६ ॥ अमी इति ॥ ७ ॥ बहुकुशुमेत्यादि । पुष्पिताप्राच्छन्दः । रुक्खा बृक्षाः । ललन्ति विहरन्ति ॥ ८ ॥ स्त्रीभिरि- त्यादि । आर्या ॥ १ ॥ बुभुक्षितो न शक्यते पादाभ्यां गन्तुम् । णहमज्झे त्यादि । गाथा । नभोमध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृशः । भूमिर्दृ- पाठा०—१ दुमशिहललदा अ ललंबमाणा (=द्रुमशिखरलता इव लम्ब- मानाः)। - -....- - -. . -.-..-. - .. ... ... - -