[भाव ! कापि वेला स्थावरकचेटस्य भणितस्थ ‘प्रवहण गृहीत्वा लघु लघ्वागच्छ इति । अद्यापि नागच्छतीति । चिरमस्मि बुभुक्षितः । मध्याह्न न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य
नभोभध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः । |
विटः--एवमेतत् ।
छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं |
शकारः--भावे !
शिलशि मम णिलीणे भाव शुज्जश्श पादे |
भावे । अज्ज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्त किं पि गाइश्शं ( इति गायति ) भावे । भावे ! शुदं तुए जे मए गाइदं ।। [ भाव !
शिरसि मम निलीनो भाव ! सूर्यस्य पादः |
भाव ! अद्यापि स चेट नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव ! श्रुतं त्वया यन्मया गीतम् ? ।]
ढसंतप्ता हतपुत्रशतेव गान्धारी । गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११ ॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरपुरुष- मनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥ मृ० १३