विदूषकः—एसो अज्जचारुदत्तो। ता जाव संपदं उवसप्पामि। (उपसृत्य) सोत्थि भवदे। वडुदु भवं। [एष आर्यचारुदत्तः। तद्यावत्सांप्रतमुपसर्पामि। स्वस्ति भवते। वर्धतां भवान्।]
चारुदत्तः—अये! सर्वकालमित्रं मैत्रेयः प्राप्तः। सखे! स्वागतम्। आस्यताम्।
विदुषकः—जं भवं आणवेदि। (उपविश्य) भो वअस्स! एसो दे पिअवअस्सेण जुण्णवुड्ढेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अज्जचारुदत्तस्स तुए उवणेदव्वो त्ति। (समर्पयति) [यद्भवानाज्ञापयति। भो वयस्य! एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति।]
(चारुदत्तो गृहीत्वा सचिन्तः स्थितः)
विदूषकः—भो! किं इदं चिंतीअदि?। [भोः, किमिदं चिन्त्यते?।]
चारुदत्तः—वयस्य!
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्। |
विदूषकः—भो वअस्स! मरणादो दालिद्दादो वा कदरं दे रोअदि । [भो वयस्य! मरणाद्दारिद्र्याद्वा कतरत्ते रोचते?।]
चितास्तृणाङ्करा यासु॥९॥ स्वस्ति भवते। वर्धतां भवान्॥ किमिदं चिन्त्यते?॥ सुखमित्यादि। दुःखान्यनुभूय सुखं शोभते, न तु सुखमनुभूय दुःखमिति तात्पर्यम्। स मृत एव जीवति। शरीरेण धृतः शरीरेण वेष्टितः, चर्मभस्त्रावदित्यर्थः॥१०॥ मरणादो मरणात्। दालिद्दादो दारिद्र्यात्। कदरं