पृष्ठम्:मृच्छकटिकम्.pdf/२१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
मृच्छकटिके

सर्वकालं मया पुष्टो मांसेन च घृतेन च ।
अद्य कार्ये समुत्पन्ने जातो मे वैरी कथम् ॥

भवतु। लब्धो मयोपायः । दत्ता वृद्धशृगालेन शिरश्चालनसंज्ञा । तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । भाव ! यत्त्वं मया भणितः, तत्कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्यं करोमि ? । एवमेत- दङ्गीकारयितुं मया भणितम् ।।

 विटः-

किं कुलेनोपदिष्ठेन, शीलमेवात्र कारणम् ।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ २९ ॥

 शकारः----भावे ! एशा तव अग्गदो लज्जाअदि, ण मं अंगीकलेदि, ता गच्छ । थावलअचेडे मए पिश्टिदे गदे वि । एशे पलाइअ गच्छदि । ता ते गेण्हिअ आअच्छदु भावे । [भाव ! एषा तवाग्रतो लज्जते न मामङ्गीकरोति । तद्गच्छ, स्थावरकचेटो मया ताडितो गतोऽपि । एष प्रपलाय्य गच्छति । तस्मात्तं गृहीत्वागच्छतु भावः ।]

 विटः–(स्वगतम् )

अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् ।
तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥३०॥

( प्रकाशम् ) एवं भवतु, गच्छामि ।

 वसन्तसेना—(पटान्ते गृहीत्वा ) ण भणामि शरणागदम्हि । [ ननु भणासि शरणागतास्मि ।]

 विटः----वसन्तसेने। न भेतव्यं न भेतव्यम्; काणेलीमातः । वसन्तसेना तव हस्ते न्यासः ।


तम् ॥ किं कुलेनेति ॥ २९ ॥ अस्मदिति ॥ ३०॥ णासेण न्यासेन, विनाशेन च।। अथवा कपटकापटिको प्राणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥