पृष्ठम्:मृच्छकटिकम्.pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
अष्टमोऽङ्कः

भोदु, शंपदं वुड्ढुखोडे आगमिश्शदि त्ति । ता ओशलिअ च्यिश्टामि ।

[एत दोषकरण्डिकामविनयस्यावासभूतां खलां रक्तां तस्य किलागतस्य रमणे कालागतामागताम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं निःश्वासापि म्रियतेऽम्बा सुमृता सीता तथा भारते ॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डक इति सहसा पाशेनोन्नासिता । सेवावञ्चितभ्रातृका मम पिता मातेव सा द्रौपदी योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरसत्वम् ॥

भवतु, सांप्रतं वृद्धशृगाल आगमिष्यतीति । ततोऽपसृत्य तिष्ठामि ।]

( तथा करोति )

(प्रविश्य, चेटेन सह )

 विटः–अनुनीतो मया स्थावरकश्चेटः । तद्यावत्काणेलीमातरं पश्यामि । ( परिक्रम्यावलोक्य च ) अये, मार्ग एवं पादपो निपतितः । अनेन च पतता स्त्री व्यापादिता । भोः पाप ! किमिदमकार्यमनुष्ठितं त्वया ? । तवापि पापिनः पतनास्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत् , यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य ) काणेलीमातः 1 एवं मयानुनीतः स्थावरकश्चेटः ।।

 शकारः-भावे । आअदं दे । पुश्तका थावलका चेडा ! तवावि शाअदं । [ भाव ! स्वागतं ते । पुत्रक स्थावरक धेट ! तवापि स्वागतम् ।


रोषेण मारिता । इति ] विपर्यस्य योजना । सेवावञ्चितो भ्राता मम पिता माता च सा द्रौपदी । पाठान्तरे तु प्रमांतः पतिः (१)। या सा पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ ३७॥ ता ततः । अपसृत्य तिष्ठामि ॥ पाप इति वृक्षं संबोधयति । अनिमित्तमसंकुलम् ॥ पिट्टदो पृष्ठतः । दक्षिणदिग्गतत्वं मृतत्वमपि ।