प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
मृच्छकटिके

 वैदः--अध ई । [ अथ किम् ।।

 विटः--मदीयं न्यासमुपनय ।।

 शकारः----कीदिशे गाशे ? । [ कीदृशो न्यासः ? ।]

 विटः–वसन्तसेना ।

 शकारः-गडा । [गता ।]

 विटः--क ! ।।

 शकारः--भावश्श जैव पिश्टदो । [भावस्यैव पृष्ठतः ।]

 विटः---( सवितर्कम् ) न गता खछ सा तया दिशी ।

 शकारः-तुम कदमाए दिशाए गडे ? । [त्वं कतमया दिशा गतः १ ।]

 विटः-पूर्वया दिशा ।।

 शकारः--शा वि दक्खिणाए गडा। [ सापि दक्षिणया गती ।।

 विटः----अहं दक्षिणया ।।

 शकारः-शा वि उत्तलाए । [ सभ्युत्तरया।]

 विटः–अव्याकुलं कथयसि, न शुद्धथति मेऽन्तरात्मा; तत्क- थय सत्यम् ।

 शकारः-शवामि भावश्श शीशं अक्षणकेलकेहिं पादेहिं । तो शंठावेहि हिअ । एशा मए मालिदा। [शपे भाधस्य शीर्षमात्मीयाभ्यां पादाभ्याम्, ततः संस्थापय हृदयम् । एषा मया मारिता !!

 विटः--( सविषादम् ) सत्यं त्वया व्यापादिता है।


शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् ; एषा मया मारिता ॥ यदि मम न प्रत्येषि पराकमे, ततः प्रेक्षख राष्ट्रिक (य) श्यालस्य शूरत्वम् । -.. –.. . - -