पृष्ठम्:मृच्छकटिकम्.pdf/२३

पुटमेतत् सुपुष्टितम्
१५
प्रथमोऽङ्कः

सत्यं न मे विभवनाशकृतास्ति चिन्ता
भाग्यक्रमेण हि धनानि भवन्ति यान्ति।
एतत्तु मां दहति नष्टधनाश्रयस्य
यत्सौहृदादपि जनाः शिथिलीभवन्ति॥13

अपि च,—

दारिद्याद्ह्रिययमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्॥14

 विदूषकः—भो वअस्स! तं ज्जेव अत्थकल्लवत्तअं सुमरिअ अलं संतप्पिदेण। [भो वयस्य तमेवार्थकल्यवर्त स्मृत्वालं संतापितेन।]

 चारुदत्तः—वयस्य! दारिद्र्यं हि पुरुषस्य,—

निवासश्चिन्तायाः परपरिभवो वैरमपरं।
जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्।


यान्ति। सत्यमिति। विभवनाशकृता मम चिन्ता नास्ति । कथमित्यत आह--- भाग्यक्रमेण लब्धव्यक्रमेण धनानि भवन्ति। तर्हि चिन्ता कुत इत्यत आह-एतत्तु मां दहति यष्टधनाश्रयस्य मम सौहृदादपि मैत्रीतोऽपि जनाः शिथिलीभवन्ति । अर्थशून्येन समं प्रयोजनाभावामैत्रीमपि न केऽपि कुर्वते ॥ १३ ॥ दारिद्यादिति । लजां गच्छति, अकाङ्क्षिनासामर्थ्यात् यदा लज्जा गता तदा तेजसः प्रभ्रष्टो भवति, यावत्तावत्कारणात् । तेजःशून्यः परिभूयते, भयाभावात् । परिभवान्निर्वेदं गच्छति, मानम्लानेः । ततः शुचमेति, वृथा जीवनमिति । ततस्त्यज्यते बुद्भ्या । निर्बुद्धिः क्षयं गच्छति । तदुक्तम् ( ० २।६३ )–'बुद्धिनाशाप्रणश्यति इति । अत एव सर्वासमापदां स्थानमित्युपसंहरति ॥ १४ ॥ कल्लवत्तअं प्रातराशः । एतद्रूपत्वे चार्थस्य तावद्रूपद्रव्यत्वाज्जनान्तरानवाहितत्वाच्च तद्वि- स्मृय धर्मचित्ताः साधवो भवन्तीत्याशयः ॥ निवास इति । चिन्ताया


पाठा०---१ तत्परिगतः, २ शोकविहतो.