पृष्ठम्:मृच्छकटिकम्.pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
नवमोऽङ्कः

[कर्णे कार्यं कथयिष्यामि । एवं बृहति मल्लकप्रमाणस्य कुलेऽहं जातः ।।

राजश्वशुरो मम पिता राजा तातस्य भवति जामाता ।
राजश्यालोऽहं ममापि भगिनीपती राजा ॥]

 अधिकरणिकः---सर्वं ज्ञायते,

किं कुलेनोपदिष्ठेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ७ ॥

तदुच्यता कार्यम् ।

 शकारः----एव्वं भणामि, अवलद्धाह वि ण अ मे किं पि कलइश्शदि, तदो तेण बहिणीवदिणा पारितुश्टेण मे कीलिदुं लक्खिदुं शव्वुज्जाणाणं पवले पुप्फकलंडकजिण्णुजाणे दिएणे । तहिं च पेखिदुं अणुदिअहं शोशावेदुं शोधावेदुं पोत्थावेदुं लुणावेदुं गच्छामि । देव्वजोएण पेक्खामि, ण पेक्खामि वा, इत्थिआशलीलं णिवड़िदं । [एवं भणामि, अपराद्धस्यापि न च मे किमपि करिष्यति, ततस्तेन भगिनीपतिना परितुष्टेन मे क्रीडितुं रक्षितुं सर्वोद्यानानां प्रवरं पुष्पकरण्डक जीर्णोद्यानं दत्तम् । तत्र च प्रेक्षितुमनुदिवसं शुष्कं कारयितुं शोधयितुं पुष्टं कारयितुं लूनं कारयितुं गच्छामि । दैवयोगेन पश्यामि, न पश्यामि वा, स्त्रीशरीरं निपतितम् ।

 अधिकरणिकः-अथ ज्ञायते का स्त्री विपन्नेति ? ।

 शकारः-हंहो अधिअलणभोइआ ! किंत्ति ण जाणामि ? । त तादिशिं णअलमंडणं कंचणशदभूशणिअं केण वि कुपुत्तेण अत्थकल्लुवत्तश्श कालणादो शुण्णं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ बाहु-


राजा तातस्य भवति जामाता । राजश्यालकः खल्वदं ममापि भगिनीपती राजा ।। एतेन यदुक्तं भवति तदाह-अपराद्धस्यापि न मे किमपि करिष्यति । क्रीडितुं रक्षितुम् । जीर्णेति विशेषणं विजनत्वख्यापनार्थम् तत्र च प्रेक्षितुम् ।