एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
नवमोऽङ्कः

 चारुदत्तः---( परिक्रम्याग्रतोऽवलोक्य च)

शु1ष्कवृक्षस्थितो ध्वाङ्क्ष आदित्याभिमुखस्तथा ।
मयि चोदयसे वामं चक्षुर्घोग्मसंशयम् ॥ ११ ॥

(पुनरन्यतोऽवलोक्य ) अये ! कथमयं सर्पः ?।।

मयि विनिहितदृष्टिर्भिन्न2नेनीलाञ्जनाभः
स्फुरितविततजिह्नः शुक़्लदंष्ट्राचतुष्कः ।
अभिपतति, सरोषो जिह्विताध्मातकुक्षि-
र्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥ १२ ॥

अपि च, इदम् ।

स्खलति चरण भूमौ न्यस्तं न चाईतमा मही
स्फुरति नयनं, वामो बाहुर्मुहुश्च विकम्पते ।
शकुनिरपश्चायं तावद्विरौति हि नैकशः
कथयति महाघोरं मृत्युं न चात्र विचारणा ॥ १३ ॥

सर्वथा देवताः स्वस्ति करिष्यन्ति ।।

 शोधनकः---एदु एदु अज्जो । इमं अधिअरणमंडवं पविसदु अज्जो । [ एवेत्वार्यः । इममधिकरणमण्डपं प्रविशत्वार्यः ।]

 चारुदत्तः--(प्रविश्य, समन्तादवलोक्य ) अहो, अधिकरणमण्डपस्य परा श्रीः । इह हि ।

चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्काकुलं
पर्यन्तस्थितचारनक्रमकरं नागाश्वहिंस्राश्रयम् ।


शुष्केति ॥ ११ ॥ मयीति ॥ १२ ॥ स्खलतीति । आर्द्रतमायां हि भुवि चरणस्खलनं युज्यते ॥ १३ ॥ जृम्भितो दीर्घात्मातोऽतिस्थल (१) ॥ चिन्तासक्ते [ ति ] चिन्तामार्गे निमग्ना एव मन्त्रिणः सलिलानि यत्र । टिप्प०...-1 पूर्वार्धे शुष्कवृक्षस्थितः काकः पूर्वाभिमुखो रौति इत्येकोऽयमपशकुनः, अपरश्चापरार्धे वामनेत्रस्फुरणमिति । 2 कज्जलराशिर्मध्येऽधिकनील इत्यर्थः । नीलाञ्जनं कज्जलम् । तथा चायं यः सर्पो मे मार्गमाक्रम्य सुप्तः स मय्यभिपततीत्यन्वयः । जिमिती वक्रिताध्माता च कुक्षिर्य॑स्य तथाविधः ।।