पृष्ठम्:मृच्छकटिकम्.pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
नवमोऽङ्कः

 शकारः---( सक्रोधम् ) आगदेशि ले इश्तिआधादआ ! आगदेशि ? ! अहो णाए ववहाले, अहो धम्मे ववहाले; जं एदाह इश्थिआघादकाह आशणे दीअदि । ( सगर्वम् ) भोदु णं दीअदु । [ आगतोऽसि रे स्त्रीघातक ! आगतोऽसि ? । अहो न्याय्यो व्यवहारः, अहो धर्म्यो व्यवहारः; यदेतस्मै सेतेरीघातकायासनं दीयते । भवतु, ननु दीयताम् ।] अधिकरणिकः-आर्य चारुदत्त ! अस्ति भवतोऽस्या आर्याया दुहित्रा सह प्रसक्तिः प्रणयः प्रीतिर्वा। चारुदत्तः–कस्याः १ ।।

 अधिकरणक–अस्याः । ( इति वसन्तसेनामातरं दर्शयति )

 चारुदत्तः- उत्थाय ) आयें ! अभिवादये ।।

 वृद्धा--जाद 1 चिरं मे जीव । (स्वगतम् ) अअं सो चारुदत्तो । सुणिक्खित्तं खु दारिआए जोवणं । [ जात ! चिरं में जीव । अयं स चारुदत्तः । सुनिक्षिप्तं खलु दारिकया यौवनम् ।] अधिकरणिकः-आर्य ! गणिका तव मित्रम् ? ।

(चारुदत्तो लञ्जां नाटयति )

 शकारः ---

लाज्जाए भीलुदाए वा
चालित्तं अलिए णिगूहिदुं ।
शअं मालिअ अत्थकालणाए
दा1णिं गूहदि ण तं हि भश्टके ॥ १७ ॥


नेत्रविशालत्वमुक्तम् ॥ १६ ॥ प्रसक्त ( क्तिः ) प्रणयो रागानुबन्धः प्रीतिर्वेति । प्रीतिः स्नेहमात्रम् ॥ लज्जाए इत्यादि । वैतालीयम् । एइं इति सबिन्दुविकारो लघुः छन्दोनुरोधात् । लज्जया भीरुकतया च लक्षित: । त्वमित्यर्थात् । किमर्थमलीके स्त्रीवधादौ दरिद्रमारणं निगृही ( गूहि ) तुम् (?) । कुत एवमित्या.-स्वयं मारयित्वार्थ निमित्तमिदानीं गृह्णाति न नष्टके । अपि तु नष्ट- पाठा०---१ णिणगूहदि ण तं हि भश्टके. मृ० १६