पृष्ठम्:मृच्छकटिकम्.pdf/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
नवमोऽङ्कः

 चारुदत्त---एवमेव ।

 अधिकरणिकः--आर्य ! वसन्तसेना क्व ।।

 चारुदत्तः --गृहं गता।

 'श्रेष्ठिकायस्थ'ौ-कधं गदा, कदा गदा, गच्छंती वा केण अणुगदा ? । [कथं गता, कदा गता, गच्छन्ती वा केनानुगता ? ।]

 चारुदत्तः--( स्वगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि ।

 श्रेष्ठिकायस्थौ-अज्ज । कघेहि । [ आर्य ! कथय ।]

 चारुदत्तः--गृहं गता । किमन्यद्ब्रवीमि ।

 |शकारः--मम केलकं पुप्फकलंडकजिण्णुज्जाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए ! शंपदं वदशि घलं गदेत्ति ।[ मदीयं पुष्पकरण्ञ्जकजीर्णोधानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये ! सांप्रतं वदसि गृहं गतेति ? ।]

 चारुदत्तः---आः, असंबद्धप्रलापिन् !

अभ्युक्षितोऽसि सलिलैर्न बलाहकानां
चाषाग्रपक्षसदृशं भृशमन्तराले।
मिथ्यैतदननमिदं भवतस्तथा हि
हेमन्तपम मिव निष्प्रभतामुपैति ॥ १९ ॥

 अधिकरणिकः-( जनान्तिकम् )

तुलनं चाद्रिराजस्य समुदस्य च तारणम् ।
ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥


समीक्ष्यत इत्याशङ्क्याह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति । पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तराले एतद्वचनमध्ये । मेघजलसिक्तन्तनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (१)