पृष्ठम्:मृच्छकटिकम्.pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
मृच्छकटिके

( प्रकाशम् ) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति ? । (‘धोणा-' [९।१६ ] इत्यादि पठति ) ।

 शकारः---किं पक्खवादेण ? ववहाले दीशदि । [किं पक्षपातेन ? व्यवहारो इश्यते ।]

 अधिकरणकः-- अपेहि, मूर्ख !

वेदार्थान्प्राकृतस्त्वं वदसि, न च ते जिह्वा निपतिता,
मध्याह्न वीक्षसेऽर्कं, न तव सहसा दृष्टिर्विचलिता ।
दीप्ताग्नौ पाणिमन्तः क्षिपसि, स च ते दग्धो भवति नो
चारित्र्याच्चारुदत्तं चलयसि, न ते देहं हरति भूः ॥ २१ ॥

आर्यचारुदत्तः कथमकार्यं करिष्यति ? ।

कृत्वा समुद्रमु1दकोच्छ्रयमात्रशेषं
दत्तानि येन हि धनान्यनपेक्षितानि ।
स श्रेयसां कथमिवैकनिधिर्महात्मा
पापं करिष्यति धनार्थमवैरिजु2ष्टम् ॥ २२ ॥

 वृद्धा--हदास ! जो तदाणिं णासीकिदं सुवण्णभंडअं रत्तिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रअणावलिं देदि, सो दाणिं अत्थकल्लवत्तस्स कालणादो इमं अकज्जं करेदि ! । हा जादे ! एहि मे पुत्ति ।। [ हताश ! यस्तदानीं न्यासीकृतं सुवर्णभाण्डं रात्रौ चौरैरपह्रतमिति तस्य कारणाच्चतुःसमुद्रसारभूतां रत्नावलीं ददाति, स


॥ १९ ॥ तुलनमिति ॥ २० ॥ वेदार्थानित्यादि । अतिधृति जातिः । वेदार्थविरोधिनो वचने जिह्वापातो युज्यते ॥ २१ ॥ कृत्येति । अनपेक्षितानि । अपेक्षा योग्यतामप्यपेक्षा तेषां न कृतेत्यर्थः (१) ॥ २२ ॥


टिप्प-1 उदकेनोदकस्य वा उच्छ्रय उच्चतैव शेषो यस्य तं समुद्रम् , समुदस्योदकमहत्तयैव महत्त्वं, न पुनः संपद्भिरित्याशयः । ३ यद्वीरैर्न जुष्टं सेवितं पापमिति भावः। ...-... ... ... .. . . ........--- | -- --

- -