पृष्ठम्:मृच्छकटिकम्.pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४५
नवमोऽङ्कः

इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हा जाते ! एहि मे पुत्रि! । ( इति रोदिति ) ।

 अधिकरणिक–आर्य चारुदत्त ! किमसौ पद्भ्यां गता, उत प्रवहणेनेति ।

 चारुदत्तः---ननु मम प्रत्यक्षं न गता । तन्न जाने किं पद्भ्यां गती, उत प्रवहणेनेति ।।

( प्रविश्य, सामर्षः )

 वीरकः----

पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स।
अणुसोअंतस्स इअं कधं पि रत्ती पभादा मे ॥ २३ ॥

ता जाव अधिअरणमंडवं उवसप्पामि । ( प्रवेष्टकेन ) सुहं अज्जमिस्साणं ।

[पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य ।
अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥

तद्यावधिकरणमण्डपमुपसर्पामि । सुखमार्य मिश्राणाम् ।

 अधिकरणकः-अये ! नगररक्षाधिकृतो वीरकः । वीरक । किमागमनप्रयोजनम् ?। ।

 वीरकः--ही, बंधणमेअणसंभमे अज्जकं अण्णेसंतो, ओवाडिदं पवहणं वच्चदि त्ति विआरं करंतो अण्णेसंतो, 'अरे! तुए वि आलोइदे, मए वि आलोइदव्वो' त्ति भणंतो ज्जेव चंदणमहत्तएण पादेण ताडिदो। म्हि । एदं सुणिअ अज्जमिस्सा पमाणं । ( ही, बन्धनभेदनसंभ्रमे आर्य-


पादप्पहारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥ टिप्प,.1 अवन्तिनगर्या अयं प्रधानरक्षकः 'हेड कॉन्स्टेबल सदृश सत्ताधारी राजपुरुष:।