पृष्ठम्:मृच्छकटिकम्.pdf/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
नवमोऽङ्कः

 अधिकरणिकः--अहो ! धिक् वैषम्यं लोकव्यवहारस्य

यथा यथेदं निपुण विचार्यते तथा तथा संकटमेव दृश्यते ।।
अहो सुसन्ना व्यवहारनीतयो, मतिस्तु गौः पङ्कगतेव सीदति ॥२५॥

 चारुदत्तः-(स्वगतम् )

यथैव पुष्पे प्रथमे विकाशे समेत्य पातुं मधुपः पतन्ति ।।
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ॥ २६ ॥

 अधिकरणिक---आर्यचारुदत्त । सत्यमभिधीयताम् ।

 चारुदत्तः--

दुष्टात्मा परगुणमत्सरी मनुष्यो
रागान्धः परमिह हन्तुकामबुद्धिः ।
किं यो यद्वदति सृषैव जातिदोषाः ।
तद्ग्राह्यं भवति, न तद्विचारणीयम् ॥ २७ ॥

अपि च,---

योऽहे लतां कुसुमितामपि पुष्पहेतो-
राकृष्य नैव कुसुमावचयं करोमि ।
सोऽहं कथं भ्रमरपक्षरुचौ सुदीर्घे।
केशे प्रगृह्य रुदतीं प्रभदां निहन्मि ? ॥ २८ ॥

 शकारः-हंहो अधिअलणभोइआ ! किं तुम्हे पक्खवादेण ? वव- हालं पेक्खध;ज्जेण अज्ज वि एशे हदाशचालुदत्ते आशणे धालीअदि। [ हंहो अधिकरणभोजकाः! किं यूयं पक्षपातेन ? व्यवहारं पश्यतः येनाप्येष हताशचारुदत्त आसने धार्यते ।]

 अधिकरणिक-भद्र शोधनक ! एवं क्रियताम् ।

( शोधनकस्तथा केरोति )


यथेति । 'अहो सुसन्ना व्यवहारनीतयः' इति सामान्यविशेषभावेन विशेषणम् ॥ २५ ॥ यथेति । छिदेषु व्यसनेषु ॥ २६ ॥ दुष्टात्मेति । प्रह- - -----


-


- -