पृष्ठम्:मृच्छकटिकम्.pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४९
नवमोऽङ्कः

उव्विग्गो विअ लक्खीअसि ।। ( आकर्ण्य ) किं भणासि---‘पिअव- अस्सो चारुदत्तो अधिअरणमंडवे सद्दाइदो' ति १ । ता ण हु अप्पेण कज्जेण होदव्वं । ( विचिन्त्य ) ता पच्छा वसंतसेणासआसं गमिस्सं । अधिअरणमंडवं दाव गमिस्सं । ( परिक्रम्यावलोक्य च) इदं अधिअरण- मंडवं । ता जाव पविसामि । (प्रविश्य ) सुहं अधिअरणभोइआणं । कहिं मम पिअवअस्सो । [ प्रेषितोऽस्म्यार्यचारुदतेन वसन्तसेनासकाशम् तत्रालंकरणानि गृहीत्वा, यथा---'आर्यमैत्रेय ! वसन्तसेनया वत्सो रोहसेन आत्मनोऽलंकारेणालंकृत्य जननीसकाशं प्रेषितः । अस्य आभरणं दातव्यम्, ने पुनर्ग्रहीतव्यम्; तत्समर्पय' इति । तद्यावद्वसन्तसेनासकाशमेव गच्छामि । कथं भावरेभिलः ? । भो भावरेभिल ! किंनिमित्तं स्वमुद्विग्न उद्विग्न इव लक्ष्यसे ? । किं भणसि-*प्रियवयस्यश्चारुदत्तोऽधिकरणमण्डप आहूतः' इति ? । तन्न खल्वल्पेन कार्येण भवितव्यम् । तत्पश्चाद्वसन्तसेनासकाशं गमिष्यामि । अधिकरणमण्डपं तावद्गमिष्यामि । अयमधिकरणमण्द्धपः । तद्यावत्प्रविशामि । सुखमधिकरणभोजकानाम् । कुत्र मम प्रियवयस्यः ? ।

 अधिकरणिकः---नन्वेष तिष्ठति ।

 विदूषकः--वअस्स ! सोत्थि दे । [ वयस्य ! स्वस्ति ते । ]

 चारुदत्तः भविष्यति ।।

 विदूषकः-अवि क्खेमं दे १ । [ अपि क्षेमं ते ? ।

 चारुदत्तः–एतदपि भविष्यति ।

 विदूषकः–भो वअस्स 1 किंणिमित्तं उव्विग्गो उव्विग्गो विअ लक्खीअसि ? कुदो वा सद्दाइदो ? । [भो वयस्य ! किंनिमित्तमुद्विग्न उद्विग्न इव लक्ष्यसे ? कुतो वाहूतः ? ।]

 चारुदत्तः----वयस्य ।। टिप्प०---1 अस्य रोहसेनस्य दातव्यमाभरणं स्वया ग्रहीतुं न योग्यमित्यर्थः । वसन्तसेनया रोहसेनस्य मृच्छकटिकायां पूरितानीमानि भूषणानि, तेषां बहुत्वात्प्रत्यर्पणम् ।

g