पृष्ठम्:मृच्छकटिकम्.pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
मृच्छकटिके

मया खलु नृशंसेन परलोकमजानता।
| स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥ ३० ॥

 विदूषकः--किं किम् ? । [ किं किम् ? । ]

 चारुदत्तः—(कर्णे ) ऐ1वमेवम् ।

 विदूषकः-- को एव्वं भणादि ? । [क एवं भणति ? ।

 चारुदत्तः---( संज्ञया शकारं दर्शयति ) नन्वेष तपस्वी हेतुभूतः कृतान्तो मां व्याहरति ।।

 विदूषकः--( जनान्तिकम् ) एव्वं कीस ण भणीअदि-गेहं गदे त्ति ? । [एवं किमर्थ न भण्यते-गृहं गतेति ? । ]

 चारुदत्तः–उच्यमानमप्यवस्थादोषान्न गृह्यते ।

 विदूषकः–भो भो अज्जा ! जेण दाव पुरट्टावणविहारारामदेउ- लतडागकूवजूवेहिं अलंकिदा णअरी उज्जइणी, सो अणीसो अत्थकल्ल- वत्तकारणादो एरिसं अकज्जं अणुचिट्ठदि त्ति ? । ( सक्रोधम् ) अरे रे काणेलीसुदा राअश्शालसंठाणआ उस्सुंखलआ किदजणदोसभंडआ बहुसुवण्णमंडिदमक्कडआ ! भण भण मम अग्गदो, जो दाणिं मम पिअवअस्सो कुसुमिदं माधवीलदं पि आअद्विअ कुसुमावचअं ण करेदि कदा वि आअद्विदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं अकज्जं उहअलोअविरुद्धं करेदि १ । चिट्ठ रे कुट्टणिपुत्ता 1 चिट्ठ। जाव एदिणा तव हिअअकुडिलेण दंडअट्ठेण मत्थरअं दे सदखंडं करेमि । [ भो भो आर्याः ! येन तावत्पुरस्थापनविहारारामदेवालयतडागकूपयूपैरलं-


मयेति ॥ ३० ॥ पुरस्थापनं पुराबस्थितिः । पुरनिर्माणमिति यावत् । कूपयू. टिप्प:--- मय। वसन्तसेना पुष्पकरण्डजीणोंद्याने धनलोभेन मारितेति

4एवमेवम्' इत्यस्याशयः । 2 दारिद्रदोषान्न विश्वस्यते इति भावः ।