प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५१
नवमोऽङ्कः

कृता नगर्युज्जयिनी, सोऽनीशोऽर्थकल्यवर्तकारणादीदृशमकार्यमनुतिष्ठतीति ? । अरे रे कुलटापुत्र राजश्थालसंस्थानक उच्छृङ्खलक कृतजनदोषभाण्ड बहुसुख- र्णमण्डितमर्कटक ! भण भणे ममाग्रतः, य इदानीं मम प्रियवयस्यः कुसुमित माधवीलतामयीकृष्य कुसुमावचयं न करोति कदाप्याकृष्टतयों पल्लवच्छेदो भवतीति, स कथमीदृशमकार्यमुभयलोकविरुद्ध करोति ?। तिष्ठ रे कुट्टिनीपुत्र! तिष्ठ। यावदेतेन तव हृदयकुटिलेन दण्डकाछैन मस्तकं ते शतखण्डं करोमि ।]

 शकारः-( सक्रोधम् ) शुणंतु शुणंतु अज्जमिश्शा । चालुदत्तकेण शह मम विवादे ववहाले वा; ता कीश एशे काकपदशीशमइतका मए शिले शदखेडे कलेदि।। भा दाव; ले दाशीए पुत्ता, दुबडुका ! । [ शृण्वन्तु शृण्वन्त्वार्य मिश्राः ! चारुदतेन सह मम विवादो व्यवहारो वा; तकिमर्थेमेष काकपदशीर्षमस्तको मम शिरः शतखण्डं करोति ? । मा तावत्; रे दास्याःपुत्र दुष्टबटुक !!]

 ( विदूषको दण्डकाष्ठभुम्य पूर्वोक्त पद्धति; कारः सक्रोधमुत्थाय ताड़ यति; विदूषकः प्रतीपं ताडयति; अन्योऽन्यं ताडयतः; विदूषकस्य कक्षवेशादा- भरणानि पतन्ति )

 अकार--( तानि गृहीत्वा, दृष्ट्वा ससाध्वसम्) पेक्खेतु पेक्खंतु अज्जा ! । एदे खु ताए तवश्शिणीए केलका अलंकाला । ( चारुदत्त- मुद्दिश्य ) इमश्श अथकछत्तश्श कालणादो एशा मालिदा वाचादिदा अ । [ पश्यन्तु पश्यन्त्वयः ! एते खलु तस्यास्तपस्विन्या अलंकाराः । अस्यार्थकल्यवर्तस्य कारणादेषा मारिता व्यापादिता च ।]

( अधिकृताः सर्वेऽधोमुखाः स्थिताः )

 चारुदत्तः---( जनान्तिकम् )

अयमेवंबिधे काले दृष्टो भूषण विस्तरः ।।
अस्माकं भाग्यवैषम्यात्पतितः पातयिष्यति ॥ ३१ ॥

 विदूषकः----भो ! कीस भूदथं ण णिवेदीअदि । । [भोः ! किमर्थ भूता न निवेद्यते । । ]