शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,
किं याशि धाविशि पलाअशि पक्खलंती |
[तिष्ठ वसन्तसेनिके! तिष्ठ,
किं यासि धावसि पलायसे प्रस्खलन्ती |
चेटः—अज्जुके! चिट्ठ, चिट्ठ,
उत्ताशिता गच्छशि अंतिका मे शंपुण्णपच्छा विअ गिम्हमोरी। |
[आर्ये! तिष्ठ, तिष्ठ,
उत्त्रासिता गच्छस्यन्तिकान्मम सम्पूर्णपक्षेव ग्रीष्ममयूरी। |
शकारभाषायां चवर्गशिरस्थितोऽन्तस्थो यकारो लेख्यः ।”पूस्पृष्टा तालव्य’ इति वचनात्। स च संयोगः प्रयत्नलाघवात्पूर्वस्य गुरुत्वं न करोति। च्यिश्टतिष्ट। किं याशीत्यादि । वसन्ततिलकाच्छन्दसा श्लोकः । प्रस्खलन्ती। प्रस्खलनं निम्नोन्नतादौ गतिविघटनम् ।”बाला स्याद्वासूः इति अमरः’। न म्रियसे। तिष्ठ तावत् । हडके ह्रदयम्। तवश्शी वराकः। अङ्गारराशिपतितंमांसखण्डमिव कामेन दह्यते॥ १८॥ अज्जुके गणिके । उत्ताशितेत्यादि। उपजातिच्छन्दसा श्लोकः । उन्त्रासिता गच्छस्यन्तिकान्मम । यद्वा,-अत्तिका ज्येष्ठा मे भगिनी ।"”अत्तिका भगिनी ज्येष्ठा’ इत्यमरः । संपूर्णापक्षेव ग्रीष्ममयूरी। ओवग्गदी अववल्गति, ससंभ्रममागच्छतीत्यर्थः। शामिअमश्टके स्वामिभट्टारकः। वने गतः कुक्कुटशावक इव । गडे इति प्रथमान्तस्यैकारान्तत्वम्।