पृष्ठम्:मृच्छकटिकम्.pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
नवमोऽङ्कः

 अधिकरणिकः---भद्रे ! अपि जानास्येतान्याभरणानि १ ।।

 वृद्धा–णं भणामि, णं1 हु ण अणभिजाणिदो । अह वा कदा वि सिप्पिणा गडिदो भवे । [ननु भणामि, न खलु न खल्वनभिज्ञातः । अथवा कदापि शिल्पिना घटितो भवेत् ।]

 अधिकरणिकः--पश्य श्रेष्ठिन् ।

वस्त्वन्तराणि सदृशानि भवन्ति नूनं
रूपस्य भूषणगुणस्य च कृत्रिमस्य ।
दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः
सादृश्यमेव कुतहस्ततया च दृष्टम् ॥ ३४ ॥

 श्रेष्ठकायस्थौ---अज्जचारुदत्तस्स केरकाइं एदाइं । [ आर्यचारुद- त्तीयान्येतानि ।] ।

 चारुदत्तः—न खलु न खलु ।

 श्रेष्ठकायस्थौ----ता कस्स ! । [ तदा कस्य ?।]

 चारुदत्तः-इहात्रभवत्या दुहितुः ।।

 'श्रेष्ठकायस्थौ-कधं एदाइं ताए विओअं गदाइं १ । [कथमेतानि तस्या वियोगं गतानि ? ।।

 चारुदत्तः–1एवं गतानि । आं, इदम् ।।

 श्रेष्ठिकायस्थौ-अज्जचारुदत्त । एत्थं सच्चं वत्तव्वं; पेक्ख पेक्ख ओबंधेइ अवदध्नाति ॥ वस्त्वन्तराणीति । कृतहस्ततया शिल्पकौशलेन


पाठा०----१ ण हुणहू, अण्णदो अह् कदा वि. टिप्प०-- *हस्त'शब्देन हस्तादिशिल्पं 'कुत'पदेन बहुव्रीहिणा समस्यते । शिल्पकुशलता, हस्तलाधवमित्यर्थः । 2 सुवर्णशकटिकार्थं रोदनं कुर्वन् रोहसेनो

वसन्तसेनया समलंकृत्य प्रेषित इति ‘एवं गतानि' इत्यस्य भावः ।।