पृष्ठम्:मृच्छकटिकम्.pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६१
दशमोऽङ्कः

[ अपसरतार्याः अपसरत । किं पश्यत १ ।

इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।
सुपुरुषप्राणविपत्तिश्वत्वार्येतानि न द्रष्टव्यानि ॥ ]

 एकः-हंडे आहींता ! पेक्ख पेक्ख

णअलींपधाणभूदे यजमीअंते कदंतअण्णाए।
किं लुअदि अंतलिक्खे आदु अणब्भे पडदि वज्जे ॥ ८ ॥

[अरे आहीन्त ! पश्य पश्य

नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया ।
किं रोदित्यन्तरिक्षमथवाऽनभ्रे पतति वज्रम् ।। ]

 द्वितीयः---अले गोहा !

ण अ लुअदि अंतर्लिक्खे णेअ अणब्मे पडदि वज्जे ।
महिलाशमूहमेहे निवडदि णअणंबु धाराहिं ॥ ९ ॥

अवि अ,---

वज्झम्मि णीअमाणे जणश्श शव्वश्श लोदमाणश्श ।
णमणशलिलेहिं शित्ते लच्छादो ण उण्णमइ लेणू ॥ १० ॥

[अरे गोह!

न च रोदित्यन्तरिक्षं नैवानभ्रे पतति वज्रम् ।
महिलासमूहमेघान्निपतति नयनाम्बु धाराभिः ॥


विवर्धमानः गोप्रसवो निपतनं च ताराणाम् । सत्पुरुषस्य प्राणविपत्तिर्नाशः । चत्वार इमे न द्रष्टव्याः ॥ ७ ॥ हण्डे इति नीचसंबोधने । णअलुअ इत्यादि । गाथा। नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमुतानभ्रे पतति वञ्जम् ॥ नगरीप्रधानवधो वज्र इवेत्युत्प्रेक्षा ॥ ८ ॥ ॥ण अ लुअदीत्यादि । गाथा । न च रोदित्यन्तरिक्षं नैवानभ्रे च पतति वज्रम् । स्त्रीसमूहमेवान्निपितति । नयनाम्बु कर्तृ । धाराभिः ॥ ९ ॥ वज्झम्मीत्यादि । आर्या । बध्ये