प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमोऽङ्कः


 विटः—वसन्तसेने! तिष्ठ तिष्ठ,

किं यासि बालकदलीव विकम्पमाना
रक्तांशुकं पवनलोलदशं वहन्ती।
रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती
टङ्कैर्मनःशिलगुहेव विदार्यमाणा॥ २०

 शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,

मम मअणमणंगं मम्मथं वडूअंती
णिशि अ शअणके मे णिद्दअं आक्खिवंती।
पशलशि भअभीदा पक्खलंती खलंती
मम वशम्अणुजादा लावणश्शेव कुंती॥ 21

[तिष्ठ वसन्तसेने! तिष्ठ,—

मम मदनमनङ्गं मन्मथं वर्धयन्ती
निशि च शयनके मम निद्रामाक्षिपन्ती।
प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती
मम वशमनुयाता रावणस्येव कुन्ती॥]


‘गतमृतकृतानां डः' इति इः ।। १९ ॥ किं यासीति । ‘टङ्कः पाषाणदारणः इत्यमरः । विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति । कुड्मलं कलिका । मनः- शिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः । 'मनःशिला तु कुनदी' इत्यमरः ॥ २० ॥ मम मअणेत्यादि । मालिनीच्छन्दसा श्लोकः । मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षि- पन्ती । प्रसरसि प्रगच्छसि । “प्रखरसि दात्यूहवद्विरौषि' इति केचित् । भयभीत प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणसरोव कुन्ती । भयभीतेति । 'भय'- शब्दोऽयमपार्थकः । ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम् । 'रावणस्येव कुन्ती” इति हृतोपमम् । तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम् ।