पृष्ठम्:मृच्छकटिकम्.pdf/२७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६२
मृच्छकटिके

वध्ये नीयमाने जनस्य सर्वस्य रूदतः । नयनसलिलैः सिक्तो रथ्यातो नोन्नमति रेणुः ॥]

 चारुदत्तः--{ निरूप्य, सकरुणम् )

एताः पुनर्हम्र्यगताः स्त्रियो मां वातायनार्धेन विनिःसृतास्याः ।
हा चारुदत्तेत्यभिभाषमाणा बाष्पं प्रणालीभिरिवोत्सृजन्ति ॥ ११ ॥

 चाण्डालौ---आअच्छ ले चालुदत्ता ! आअच्छ । इमं घोषणट्ठाणं । आहणेध डिंडिमं, घोशेध घोशणं । [आगच्छ रे चारुदत्त ! आगच्छ । इदं घोषणस्थानम् । आहत डिण्डिमम् , घोषयत घोषणाम् ।

 उभौ-शुणाध अज्जा ! शुणाध । एशे शत्थवाहविणअदत्तश्श णत्थिके शाअलदत्तश्श पुत्तके अज्जचालुदत्ते णाम । एदिणा किल अकज्जकालिणा गणिआ वशंतशेणा अत्थकल्लवत्तश्श कालणादो शुण्णं पुष्फकलंडअजिण्णुज्जाणं पवेशिअ बाहुपाशबलक्कालेण मालिदे ति, एशे शलोत्ते गहिदे, शअं अ पडिवण्णे । तदो लण्णा पालएण अम्हे आण्णता एदं मालेदुं । जदि अवले ईदिशं उभअलोअविलुद्धं अकज्जं कलेदि तं पि लाआ पालए एव्वं ज्जेव शाशदि । [ शृणुतार्याः शृणुत । एष सार्थवाहविनयवृत्तस्य नप्ता सागर- दत्तस्य पुत्रक आर्यचारुदत्तो नाम । एतेन किलाकार्यकारिणा गणिका वसन्तसेनार्थकल्यवर्तस्य कारणाच्छूव्यं पुष्पकरकजीर्णोद्यानं प्रवेश्य बाहुपाशवलात्कारेण मारितेति एष सलोप्त्रो गृहीतः, स्वयं च प्रतिपन्न- । ततो राज्ञा पालकेन वयमाज्ञप्तौ एतं मारयितुम् । यद्यपर ईद्दशमुभय- लोकविरूद्धमकार्यं करोति तमपि राजा पालक एवमेव शास्ति]


नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्ते सति रथ्यातो नोन्नमति रेणुः ॥ गोमिन् ग्राहे स्वामिनः (?) ॥ १० ॥ एता इति ॥ ११ ॥