पृष्ठम्:मृच्छकटिकम्.pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६९
दशमोऽङ्कः

ण कामेशित्ति कदुअ बाहुपाशबलक्कालेण मालिदा, ण उण एदिणा अज्जेण । कधं विदूलदाए ण को वि शुणादि । ता किं कलेमि । अत्ताणअं पाडेभि। ( विचिन्त्य ) जइ एव्वं कलेमि, तदा अजचारूदत्ते ण वावादीअदि । भोदु, इमादो पाशादबालग्गपदोलिकादो एदिया जिण्णगवक्त्रेण अत्ताणअं णिक्खिवामि । वलं हग्गे उवलदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालुदत्ते । एवं जह विवज्जामि लद्धे मए पललोए । ( इत्यात्मानं पातयित्वा) ही ही, ण उवलदम्हि । भग्गे मे दंडणिअले । ता चांडालघोशं शमण्णेशामि। ( दृष्ट्वोपसृत्य } हंहो चांडाला । अंतलं अंतलं । [कथमपापश्चारुदत्तो व्यापाद्यते ? । अहं निगडेन स्वामिना बद्धः । भवतु, आक्रन्दामि । शृणुतार्याः ! शृणुत । अस्तीदानीं मया पापेन प्रवहणपरिवर्तेन पुष्पकरण्कजीर्णोद्यान वसन्तसेना नीता । ततो मम स्वामिना मां न कामयस इति कृत्था बाहुपाशबलात्कारेण मारिता, न पुनरेतेनार्येण । कथं विदूरतया न कोऽपि शृणोति ? तकि करोमि ? । आरमाने पातयामि ? । यद्येवं करोमि, तदार्यचारुदतो न व्यापाद्यते । भवतु, अस्याः प्रासादबालाग्रप्रतोलिकात् एतेन जीर्णगवाक्षेणात्मानं निक्षिपामि । वरमहमुपरतः, न पुनरेष कुलपुत्रविहगानां वासपादप आर्यचारुदत्तः । एवं यदि विपद्ये लब्धो मया परलोकः । आश्चर्यम् , नोपरतोऽस्मि । भग्नो मे दण्डनिगडः । तच्चाण्डालघोषं समन्विष्यामि । हं हो चाण्डालाः ! अन्तरमन्तरम् ।]

 चाण्डालौ-अले ! के अंतलं मग्गेदि ? । [अरे ! कोऽन्तरं याचते १।।

( चेटः शुणाध' इति पूर्वोक्तं पठति )

 चारुदत्तः-अये !

कोऽयमेवंविधे काले कालपाशस्थिते मयि ।
अनावृष्टिहते सस्ये द्रोणमे1घ इवोदितः १ ॥ २६ ॥


न्तरे । इदमपि यत्र फलमयशः ।। प्राप्त इति ॥ २५ ।। आक्कंदामि विरौमि । बालग्गपदोलिआए बालग्रप्रतोलीतः । प्रासादभागादित्यर्थः ॥ कोऽयमिति टिप्प०---1 द्रोणमेघो नाम प्रचुरधारासंपातविशिष्टो मेधो योऽतिशयेन वर्षति । अनैन चारुदत्तस्यानन्दातिशयो द्योत्यते । .- -..-.५ ६