एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
मृच्छकटिके

 चाण्डालौ---( दृष्ट्वा ) शोहणं भणादि । वितत्ते चेडे किं ण प्पडवदि ? । [शोभनं भणति । वितप्तश्वेटः किं न प्रलपति ?।]

 चेटः--हीमादिके, ईदिशे दाशभावे, जं शच्चं कंपि ण पत्तिाआअदि । ( सकरुणम्) अज्जचालुदत्त ! एतिके मे विहवे । [ हन्त, ईदृशो दासभावः, यत्सत्यं कमपि न प्रत्यापयति । आर्य चारुदत्त ! एतावान्मे विभवः ।] ( इति पादयोः पतति)

 चारुदत्तः–(सकरुणम् )

{{block center|{{bold|<poem>उत्तिष्ठ भोः ! पतितसाधुजनानुकम्पि-

न्निष्कारणोपगतबान्धव धर्मशील ! ।

यत्नः कृतोऽपि सुमहान्मम मोक्षणाय

दैवं न संवदति, किं न कृतं त्वयाद्य ॥ ३१ ॥

 चाण्डालौ--भट्टके ! पिट्ठिअ एदं चेडे णिक्खालेहि । [ भट्टक ! ताडयित्वैतं चेट निष्कासय ।

 शकारः–णिक्कम ले । ( इति निष्क्रामयति ) अले चांडाला ! किं विलंबेध ? मालेध एदं । [ निष्काम रे । अरे अरे चाण्डालाः ! किं विल. म्बध्वम् ? मारयतैनम् ।

 चाण्डालौ---जदि तुवलशि ता शअं ज्जेव मालेहि । [यदि त्वरयसे तदा स्वयमेव मारय ।

 रोहसेनः--अले चांडाला ! मे मारेध; मुंचध आवुकं । [अरे चाण्डालाः ! मां मारयत; मुञ्चत पितरम् ।]

 शकारः-शपुत्त ज्जेव एवं मालेध । [ सपुत्रमेवैतं मारयत ।]

 चारुदत्तः---सर्वमस्य मूर्खस्य संभाव्यते । तद्गच्छ पुत्र ! मातुः समीपम् ।


ममाकार्यसाक्षी । किदवेले कृतवैरः । विहवे सामर्थ्यम् ॥ उत्तिष्ठेति ॥ ३१॥