पृष्ठम्:मृच्छकटिकम्.pdf/२८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
मृच्छकटिके

कदाधि हत्थी बंधं खंडेदि, तेण शंभमेण वज्झे मुक्के होदि । कदावि लोअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि । | कदापि कोऽपि साधुरर्थ दत्त्वा वध्यं मोचयति । कदापि राज्ञः पुत्रो भवति, तेन वृद्धिमहोत्सवेन सर्ववध्यानां मोक्षो भवति । कदापि इस्ती बन्धं खण्ड- यति, तेन संभ्रमेण वध्यो मुक्तो भवति । कदापि राजपरिवर्तो भवति, तेन सर्ववध्यानां मोक्षो भवति ।।

 शकारः–किं किं लोअपलिवत्ते होदि है। [किं किं राजपरिवर्तो भवति १।]

 चाण्डालः–अले, वज्झपालिआए लेक्खों कलेम्ह । [अरे, वध्य- पालिकाया लेखं कुर्मः ।।

 शकारः-अले, शिग्धं मालेध चालुदत्तकं । [ अरे, शीघ्रं मार- यत चारुदत्तम् ।]( इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः )

 चाण्डालः---अज्जचालुदत्त ! लाअणिओओ खु अवलज्झदि, ण खु अम्हे चाण्डाला; ता शुमलेहि जं शुमलिव्वं । [ आर्यचारुदत्त ! राजनियोगः खल्वपराध्यति, न खलु वयं चाण्डालाः; तत्स्मर्तव्यम् ।]

 चारुदत्तः---

प्रभवति यदि धर्मो दूषितस्यापि मेऽद्य ।
प्रबलपुरुषवाक्यैर्भाग्यदोषात्कथंचित् ।
सुरपतिभवनस्था यत्र यत्र स्थिता वा ।
व्यपनयतु कलङ्कं स्वभावेन सैव ॥ ३४ ॥

भोः ! के तावन्मयो गन्तव्यम् ।।


अरे मारयितुं तव मया समर्पितः । त्वं मम कर्तव्यमित्यर्थः (१) ॥ वय चण्डालाः। नैवं कृतेऽस्माकं दोष इति भावः । विज्ञप्ये विज्ञापयामि । (४) शुमलिदव्वं स्मर्तव्यम् । प्रभवतीति । प्रबलपुरुषा नयनिर्णेतारः । तेषां वाक्यैर्भाग्यदोषादूषितस्य यदि मे धर्मः प्रभवति तदा सैव वसन्तसेनैव स्वस्वभावेनात्मरूपतया व्य-