पृष्ठम्:मृच्छकटिकम्.pdf/२९

पुटमेतत् सुपुष्टितम्
२१
प्रथमोऽङ्कः

 विटः

प्रसरसि भयविक्लवा किमर्थं
प्रचलितकुण्डलघृष्टगण्डपार्श्वा।
विटजननखघट्टितेव वीणा
जलधरगर्जितभीतसारसीव॥२५

 शकारः

झाणज्झणंतबहुभूशणशद्दमिश्शं
किं दोव्वदी विअ पलाअशि लामभीदा ? ।
एशे हलामि शहश त्ति जधा हणूमे
बिश्शावशुश्श बहिर्णिं विअ तं शुभहं॥ २५

[झणज्झणमिति बहुभूषणशब्दमिश्रं किं द्रौपदीव पलायसे रामभीता।
एष हरामि सहसेति यथा हनूमान्विश्वावसोर्भगिनीमिव तां सुभद्राम्॥]

 चेटः

लामेहि अ लाअवल्लहं तो क्खाहिशि मच्छमंशकं।
एदेहिं मच्छमंशकेहिं शुणआ मडअं ण शेवंदि॥ २६

[रमय च राजवल्लभं ततः खादिष्यसि मत्स्यमांसकम्।
एताभ्यां मत्स्यमांसाभ्यां श्वानो मृतकं न सेवन्ते॥]


‘वेशो वेश्यानाश्रयः' इत्यमरः । सुवेशनिलया शोभनानां वेशानामलंकाराणां निलय आश्चयो यस्यां सा । वेशाङ्गना वेशोऽयास्तीति वेशिका । एतान्यस्या दश नामकानि मया कृतानि । अद्यापि मां नेच्छति । यदि देवताया अष्टौ दश द्वादश वा नामानि पठ्यन्ते तदा सो प्रसन्ना भवति; इयं वेतावतापि न प्रसन्नेति भावः । अत्र पूर्वार्धात्तरार्धयोः एषैषेति पुनरुक्तम्, न्यूनमधिकं वां कृतम् । दशेति व्यर्थम् ॥ २३ ॥ प्रसरसीत्यादि । प्रचलिताभ्यां कुण्डलीभ्यां गण्डयोघृष्टं पार्श्वं यस्याः सा । अत एव विटनखपरिभृष्टवीणातुल्या । मनोहर त्वाच्छन्दवत्त्वाद्वा वीणातुल्यत्वम् । विटसदृशौ कुण्डलौ ॥ २४ ॥ झाणज्झणंतेति । वसन्ततिलकं छन्दः । झाणज्झणंतेत्यव्यक्तानुकरणम्। । अव्यक्तशब्दविशेषयुक्तबहुभूषणशब्देन मिश्रं यथा स्यादेवम् । किं द्रौपदीव पलायसे रामभीता । एष हरामि झटिति यथा हनुमान् विश्वावसोभगिनीमिव त सुभद्राम् । विश्वावसोः सिद्धराजविशेषस्य भगिनी सुभद्रा न, किं तर्हि ? कृष्णस्य । यथा इवेति पुनरुक्तम् ॥ ३५ ॥ लाभहीत्यादि । प्रतिपादं चतुर्दशमात्रत्वान्मात्रा-