वसन्तसेना--( सास्नमुत्थाय, पादयोर्निपत्य) अज्जचालुदत्त ! सा ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । [ आर्यचारुदत्त ! सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता।]
( नेपथ्ये )
अच्चरिअं अच्चरिअं, जीवदि वसंतसेना । [ आश्चर्यमाश्चर्य, जीवति वसन्तसेना । ] ( इति सर्वे पठन्ति )
चारुदत्तः---( आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षगद्गदाक्षरम् ) प्रिये ! वसन्तसेना त्वम् ? ।।</poem>}}}}
वसन्तसेना--सा ज्जेवाहं मंदभाआ । [ सैवाहं मन्दभाग्या ।।
चारुदत्तः--( निरूप्य, सहर्षम् ) कथं वसन्तसेनैव ? । ( सानन्दम् )
कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ । |
प्रिये वसन्तसेने !
त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे। |
अपि च प्रिये ! पश्य,
रतं तदेव वरवस्त्रमियं च माला |
वसन्तसेना-अदिदक्खिणदाए किं ण्णेदं ववसिदं अज्जेण ? । [ अतिदक्षिणतया किं न्विदं व्यवसितमार्येण ? ।]
॥ ४० ॥ कुत इति । विद्या इतरविविक्तात्मज्ञानम् ॥ ४१ ॥ त्वदर्थमिति टिप्पं०-1 'मृतसंजीविनी विद्या यथा मृत्युवशं प्राप्तं प्राणिनं जीवनदानहेतु-
त्वादानन्ददात्री भवति तथैव ममापि मरणसमये जीवनदात्रीत्वेन कुतस्त्वं समभ्यागतेत्यानन्दप्रचुरं चारुदतस्येदं भाषणम् ।