चारुदत्तः-शर्विलक ! योऽसौ पालकेन धोषा1दानीय निष्कारणं कूटागारे बद्ध आर्यकनामा त्वया मोचितः १ ।।
शर्विलकः---यथाह तत्रभवान् ।
चारुदत्तः–प्रियं नः प्रियम् ।।
शर्विलकः--प्रतिष्ठितमात्रेण तव सुहृदार्यक्रेणोज्जयिन्यां वेणातटे कुशावल्यां राज्यमति2सृष्टम् । तत्प्रतिमान्यतां प्रथमः सुहृत्प्रणयः । (परिवृत्य ) अरे रे, आनीयतामयं पापो राष्ट्रियशठः ।
( नेपथ्ये )
यथाज्ञापयति शर्विलकः ।
शर्विलकः--आर्य नन्वयमार्यको राजा विज्ञापयति---इदं मया युष्मद्गुणोपार्जितं राज्यम्; तदुपयुज्यताम् ।।
चारुदत्तः-अस्मद्णोपार्जितं राज्यम् ? ।।
(नेपथ्ये )
अरे रे राष्ट्रियश्यालक ! एह्येहि । स्वस्याविनयस्य फलमनुभव ।
( ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्वाहुबद्धः शकारः )
शकारः–हीमादिके,
एवं दूलमदिक्कंते उद्दामे विअ गद्दहे। |
त्कटवध इति सूचयितुम् ॥ ५० ।। त्वद्यानमिति ॥ ५१ ॥ एव्वमिति ॥५२॥ टिप्प-1 घोषादाभीरपल्ले:, निष्कारणं निरपराधम् , अन्यथाऽयमार्यको राजा भविष्यतीतिरूपस्य सिद्धादेशस्य कारागारबन्धन कारणस्य सत्त्वादित्याशयः । 2 ब्राह्मणेभ्यो यथाविधि सङ्कल्पादिकं विधाय दत्तम् । ३ युष्माकं पूज्यानां शिष्टतया सिद्धानामिव चारुदत्तशर्विलकादीनां गुणैः प्रवहणावतरण-रक्षण-बन्धनभेदनसिद्धादेशाधूपकारैरुपार्जित राज्यमत एव चारुदत्त-चन्दनक-शर्वलकादिभिरुपकारिभिः सर्वैरुपार्जितं राज्यं तस्य सार्थकता यथा भवति तथाऽनुष्ठीयतामित्याशयः । मृ० १९