एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
मृच्छकटिके

( दिशोऽवलोक्य } शमंतदो उवट्टिदे एशे लश्टिअबंघे । ता कं दाणि अशलणे शलणं वजामि !! ( विचिन्त्य ) भोदु, तं ज्जेव अब्भुववण्णशलणवच्छलं गच्छामि । ( इत्युपसृत्य ) अज्जचालुदत्त ! पलित्ताआहि पलित्ताआहि । [ आश्चर्यम्,

एवं दूरमतिक्रान्त उद्दाम इव गर्दभः ।।
आनीतः खल्वहं बद्धः कुक्करोऽन्य इव दुष्करः ॥

समन्तत उपस्थित एष राष्ट्रियबन्धः । तत्कमिदानीमशरणः शरणं व्रजामि ? । भवतु, तमेवाभ्युपपन्नशरणवत्सलं गच्छामि । आर्यचारुदत्त ! परित्रायस्व परित्रायस्व ।]

( इति पादयोः पतति )

( नेपथ्ये )

अज्जचालुदत्त । मुंच मुच, वावदेम्ह एवं ।। आर्यचारुदत्त ! मुञ्च मुञ्च, व्यापादयामैतम् ।।

 शकारः- चारुदत्तं प्रति ) भो अशलणशलणे ! पलित्ताआहि । { भो अशरणशरण ! परित्रायस्व ।]

 चारुदत्तः--( सानुकम्पम् ) अहह, अभयमभयं शरणागतस्य ।

 शर्विलकः--( सावेगम् ) आः, अपनीयतामयं चारुदत्तपार्श्वात् । ( चारुदत्तं प्रति ) ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति ।।

आकर्षन्तु सुबद्धैनं श्वभिः संवाद्यतामथ ।
शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥ ५३॥

 चारुदत्तः-किमहं यद्रवीमि तक्रियते ? ।।

 शर्विलक-कोऽत्र संदेहः १ ।।

 शकारः----भश्टालआ चालुदत्त ! शलणागदे म्हि । ता पलिताआहि पलित्ताआहि । जं तुए शलिशं तं कलेहि; पुणो ण ईदिशं कलिश्शं । [भट्टारक चारुदत्त ! शरणागतोऽस्मि । तत्परित्रायस्व परित्रा- यस्व । यत्तव सदृशं तत्कुरुः पुनर्नेदृशं करिष्यामि ।