पृष्ठम्:मृच्छकटिकम्.pdf/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
दशमोऽङ्कः

( नेपथ्ये )

 पौराः । वावादेध, किंणिमित्तं पादकी जीवावीअदि ? । [ पौराः ! व्यापादयत, किंनिमित्तं पातकी जीव्यते ? । ]

 ( वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति )

 शकारः--गब्भदाशीधीए ! पशीद पशीद । ण उण मालइश्शं । ता पलित्ताआहि } { गर्भदासीपुत्रि ! प्रसीद प्रसीद । न पुनरयिष्यामि । तत्परित्रायस्व ।]

 शर्विलकः---अरे रे, अपनयत । आर्यचारुदत्त ! आज्ञाप्यताम्- किमस्य पापस्यानुष्ठीयताम् ।।

 चारुदत्तः----किमहं यह्रवीमि तक्रियते ?।

 शर्विलकः कोऽत्र संदेहः ।

 चारुदत्तः---सत्यम् ।।

 शर्विलकः----सत्यम् ।

 चारुदत्तः----यद्येवं शीघ्रमयम्---

 शर्विलक-किं हन्यताम् ।।

 चारुदत्तः–नहि नहि, मुच्यताम् ।

 शर्विलकः-किमर्थम् ।।

 चारुदत्तः--

शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।
शस्त्रेण न हन्तव्यः,

 शर्विलकः--एवम् , तर्हि श्वभिः खाद्यताम् ।

 चारुदत्तः–नहि,

उपकारहतस्तु कर्तव्यः ॥ ५४॥

 शर्विलकः–अहो, आश्चर्यम्, किं करोमि । वदत्वार्यः ।

 चारुदत्तः तन्मुच्यताम् ।

 शर्विलकः-मुक्तो भवतु ।