एतत् पृष्ठम् परिष्कृतम् अस्ति


मृच्छकटिकस्याङ्कक्रमेण ..कथा वस्तु शूद्रकनृपतिविरचितं शृङ्गाररसप्रधानं दशावनिबद्धं मृच्छकटिकं नामेदं प्रकरणम् । अस्मिन् मालवेप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपरा. भिधोज्जयिनीवास्तव्ययोर्वसन्तसेनाचारुदत्तयोः परस्परानुरागो निपुणतरं वर्णितो वरीवर्ति ॥ तत्र तावत् प्रथमेऽङ्के . जूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृकाभ्यो बलिमुपहर्तुं पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले वसन्तसेनाशङ्कया संस्थानकशकारनिगृहीता रदनिका प्रेक्ष्य विटेन सविन- यमनुनीयेतदनिवेदयितुमङ्गीकारितात्प्रतिनिवृत्य "अस्माभिरभिसार्यमाणा वसन्तसेना भवद्भवनं प्रविष्टा, यदि तामर्पयसि तदा मैत्री, अन्यथा- ऽऽमरणवैरम्" इति राष्ट्रियोक्तिं निवेदयतो मैत्रेयात्सेयमिति श्रुत्वा रत्नभाण्डं निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमोपनिधिकं रक्षितुं विदूषकायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्त इति प्रदर्शितम् ॥ द्वितीयेऽङ्के वसन्तसेना मदनिकया चारुदत्तमेवानुचिन्तयन्ती, द्यूते दशसुवर्णहारणात् पलाय्य जीर्णदेवालये गत्वा देवप्रतिमारूपेणावस्थितस्य, तमनुसरन्यां सभिक-द्युतकराभ्यां द्युतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य, तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी प्रपूर्य पलायितस्य, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञात- पूर्वचारुदत्तसेवकस्य संवाहकस्यार्थे द्वारबहिश्चतुष्पथावस्थितमाथुराय निजरुक्मवलयं दत्वा, कर्णपूरकान्निजभुजविक्रमकृतकरिदमनलब्धं परितोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तस्मै दत्वा च स्वसहननिकटमार्गेण स्वभवनं गच्छन्तं चारुदत्तं निरीक्षितुमुदा- लिन्दमारोहतीत्ययमर्थो विनिषद्धः॥