प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९३
दशमोऽङ्कः

 शर्विलकः---अहो प्रमादः।

त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।।
हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥ ५६ ॥

 वसन्तसेना–समस्ससिदु अञ्जो । तत्त गदुअ जीवावेदु अज्ञां; अण्णधा अधीरत्तणेण अणत्यो संभावीअदि । [ समाश्वसिस्वार्यः । तत्र गवा जीवयस्वायम्; अन्यथा घीरत्वेनानर्थः संभाव्यते । ]

 चारूदत्तः---( समाश्वस्य, सहसोत्थाय च ) हा प्रिये ! क्वासि ? । देहि मे प्रतिवचनम् ।

 चन्दनकः--इदो इदो अज्जो 1 [इत इत आर्यः ।]

( इति सर्वे परिक्रामन्ति )

 (ततः प्रविशति यथानिर्दिष्टा धूत चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च )

 धृता---( साप्तम् ) जाद! मुचेहि मं । मा विग्धं करेहि । भी- आमि अजउत्तस्स अमंगलाकण्णणदो । [जात ! मुञ्च माम् । मा विनं कुरुष्व । बिभेम्यार्यपुत्रस्यामङ्गलाकर्णनात् ।] ( इत्युत्थायाञ्चलमाकृष्य, पावका- भिमुखं परिकामति )

 रोहसेनः--माद अज्जए ! पडिवालेह में । तुए विणा ॥ सक्छु- णोमि जीविदं धारेदं । [ भातरायें ! प्रतिपालय माम् । त्वया विना न शक्नोमि जीवितं धर्तुम् । ] ( इति त्वरितमुपसृत्य, पुनरवलं गृह्णाति )

 विदूषकः--भोदीए दाव बग्हणीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरति रिसीओ । [ भवत्यास्तावहाह्मण्या भिन्नत्वेन चिताधि- रोहणं पापमुदाहरन्ति ऋषयः ।] दिप्प०---1 क्षत्रियादीनां भिन्नत्वेनापि चितारोणाधिकारस्मरणाहाण्या इति

भिन्नत्वेनेत्युक्तिः ।