पृष्ठम्:मृच्छकटिकम्.pdf/३०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
दशमोऽङ्कः

 धूता--( विलोक्य ) अम्महे, अज्जउत्तस्स ज्जेव्व सरसंजोओ। ( पुनर्निपुणं निरूप्य, सहर्षम् ) दिट्टिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअं । [ आश्चर्यम्, आर्यपुत्रस्यैव स्वरसंयोगः । दिष्ट्यार्यपुत्र एवैषः । प्रियं मे प्रियम् ।]

 बालकः-( विलोक्य सहर्षम् ) अम्मो, आवुको मं परित्सजदि । { धूतां प्रति ) अज्जए ! वड्ढवीअसि । आवुको ज्जेव मं पज्जवट्ठावेदि । आश्चर्यम्, पिता मां परिष्वजति । आर्ये ! वर्धसे । तात एव मां पर्यवस्था पयति ।] ( इति प्रत्यालिङ्गति )

 चारुदत्तः-(धूतां प्रति )

हा प्रेयसि ! प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् ।
अम्भोजिनीलोचनमुद्रणं किं भानावनस्तंगमिते' करोति ? ॥ ५७ ॥

 धूता--अज्जउत्त ! अदो ज्जेव सा अचेतणेत्ति चुंबीअदि । [ आर्यपुत्र ! अत एव साऽचेतनेति चुम्ब्यते।]

 विदूषकः--- दृष्ट्वा, सहर्षम् ) ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि । अहो सदीए पहावो, जदो जलणप्पवेशव्यवसापण ज्जेव पिअसमागमं पाविदो (चारुदत्तं प्रति ) जेदु जेदु पिअवअस्सो । [आश्चर्य, भोः ! एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो सत्याः प्रभावः, यतो ज्वलनप्रवेशव्यवसायेनैव प्रियसमागमं प्रापिता। जयतु जयतु प्रियवयस्यः ।]

 चारुदत्तः-एहि मैत्रेय ।। ( इत्यालिङ्गति )

 चेटी--अहो संविधाणअं । अज्ज ! वंदामि । [अहो संविधानकम् । आर्य ! वन्दे ।]( इति चारुदत्तस्य पादयोः पतति )।

 चारुदत्तः---(पृष्ठे करं दत्वा) रदनिके ! उत्तिष्ठ । ( इत्युत्थापयति )


पनमाचार इति कृत्वा स्वयमेव क्षमोऽहमिति भावः ॥ हा प्रेयसीति ॥ ५७ ॥ - --- ...