पृष्ठम्:मृच्छकटिकम्.pdf/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
मृच्छकटिके

 धूता--( वसन्तसेनां दृष्ट्वा) दिट्टिआ कुसलिणो बहिणिआ । [ दिष्ट्या कुशलिनी भगिनी ।

 वसन्तसेना-अहुणा कुसलिणी संवुत्तम्हि । [अधुना कुशलिनी संवृत्तास्मि ।]

( इत्यन्योन्यमालिङ्गतः) ।

 शर्विलकः--दिष्ट्या जीवितसुहृद्वर्ग आर्यः ।।

 चारुदत्तः--युष्मत्प्रसादेन ।

 शर्विलकः–आर्ये वसन्तसेने ! परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।।

 वसन्तसेना-अज्ज ! कदत्थम्हि । [ आर्य ! कृतार्थोस्मि ।]

 शर्विलकः-( वसन्तसेनामव1गुण्ठ्य चारुदत्तं प्रति ) आर्य ! किमस्य भिक्षोः क्रियताम् ।।

 चारुदत्तः-भिक्षो ! किं तव बहुमतम् ?

 भिक्षुः—इमं ईदिशं अणिच्चत्तणं पेक्खिअ दिउणतले मे पव्वज्जाए बहुमाणे संवुत्ते । [इदमीदृशमनित्य1त्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्यायां बहुमानः संवृत्तः ।।

 चारुदत्तः-सखे ! दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहा2रेषु कुलपतिरयं क्रियताम् ।।

 शर्विलक-यथाहार्यः ।

 भिक्षुः–पिअं णो पिअं । [ प्रियं नः प्रियम् ।]


टिप्प०-1 वसन्तसेनां प्रावारकेणाच्छाद्येत्यर्थः। 2 एतत्संविधानकं विचिन्त्य निखिलं जगदिदमनित्यमिति विचार्य सर्वपरित्यागेन त्यागी संवृत्तोऽसि । 3 निखिल

सौगतदेवालयेषु धर्माध्यक्ष इत्यर्थः ।