वसन्तसेना--'1संपदं जीवाविदम्हि । [सांप्रत जीवापितास्मि ।]
शर्विलकः----स्थावरकस्य किं क्रियताम् ।।
चारुदत्तः–सुवृत्त अदासो भवतु । ते चाण्डालाः सर्वचाडालानामधिपतयो भवन्तु । चन्दनकः पृथिवीदण्डपालको भवतु । तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्वमासीत्, वर्तमाने तथैवास्यास्तु ।
शर्विलकः--एवं, यथाहार्यः; परमेनं मुञ्च मुञ्च; व्यापादयामि ।
चारुदत्तः----अभयं शरणागतस्य । (‘शत्रुः कृतापराधः (१०) ५४) इत्यादि पठति )
शर्विलकः---तदुच्यतां किं ते भूयः प्रियं करोमि ।
चारुदत्तः–अतः परमपि प्रियमस्ति
लब्धा चरिच्यशुद्धिश्चरण निपतितः शत्रुरप्येष मुक्तः, |
दिउणतले द्विगुणतरः ॥ लब्धेति । अचलां पृथ्वीम् ॥ ५८ ।। कांश्चिदिति टिप्प०--1 दशभिः सुवर्णैर्मोचितेन निष्क्रीतेनेव संवाहकेन निर्वेदाद्भिक्षुभूतेन वसन्तसेना सलिलसेचनादिना जीवदवस्यां प्रापितेति महानुपकार आसीत् । इदानीं सकलचैत्यायतनमुख्यस्वामित्वार्पणेन प्रत्युपकार प्रतीकार आसीदित्यस्याशयः ।। 2 अन्योन्यं प्रतिपक्षाणां बाध्यबाधकानां, विद्धानामित्यर्थः । धनित्व-निर्धनित्व-राजत्व-रङ्कत्वादीनां संहतिरूपा वा लोकव्यवहार उत्पत्ति-स्थिति-संहाररूपमित्याशयः । यथा घटीयन्त्रे चलति स्वल्पघटा मालायां क्रमादुञ्चनीचभावप्राप्तौ जलमानयन्ति त्यजन्ति च
तथेह दैवमपि स्वीयपूर्वसंचित क्रमानुगुणमधनत्व-सघनत्वादिकमनुभावयतीत्यर्थः ।